प्रथमोऽचिरोपसम्पत्तौ

6-2-56 प्रथमः अचिरोपसम्पत्तौ प्रकृत्या पूर्वपदम् अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रथमशब्दः पूर्वपदमचिरोपसंपत्तौ गम्यमानायामन्यतरस्यां प्रकृतिस्वरं भवति। अचिरोपसंपत्तिरचिरोपश्लेषोऽभिनवत्वम्। प्॒रथ॒मव॑ैयाकरणः, प्॒रथ॒म॒व॒ैया॒क॒र॒णः। अभिनववैयाकरणः, संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः। प्रथमशब्दः <<प्रथेरमच्>> (प०उ० ५.६८) इति चित्त्वादन्तोदात्तः। अचिरोपसंपत्ताविति किम्? प्॒रथ॒म॒व॒ैया॒क॒र॒णः। वैयाकरणानामाद्यो मुख्यो वा यः, स नित्यमन्तोदात्त एव॥

Siddhanta Kaumudi

Up

प्रथमशब्दो वा प्रकृत्याऽभिनवत्वे । प्रथमवैयाकरणः । संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । अचिरेति किम् । प्रथमो वैयाकरणः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up