हिरण्यपरिमाणं धने

6-2-55 हिरण्यपरिमाणं धने प्रकृत्या पूर्वपदम् अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हिरण्यपरिमाणवाचि पूर्वपदं धनशब्द उत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति। द्वि॒सु॒व॒र्णध॑नम्, द्वि॒सु॒व॒र्ण॒ध॒नम्। द्वौ सुवणौ परिमाणमस्य द्विसुवर्णम्, तदेव धनमिति कर्मधारयः। बहुव्रीहावपि परत्वाद् विकल्प एव भवति। द्वि॒सु॒व॒र्णध॑नः, द्वि॒सु॒व॒र्ण॒ध॒नः। हिरण्यग्रहणं किम् ? प्र॒स्थ॒ध॒नम्। परिमाणग्रहणं किम्? का॒ञ्च॒न॒ध॒नम्। धन इति किम्? नि॒ष्क॒मा॒ला॥

Siddhanta Kaumudi

Up

सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति द्विसुवर्णं तदेव धनं द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । हिरण्यं किम् । प्रस्थधनम् । परिमाणं किम् । काञ्चनधनम् । धने किम् । निष्कमाला ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

हिरण्यपरिमाणवाचीति । परमाणविशिष्टहिरण्यवाचीत्यर्थः । तत्र सुवर्णशब्दः परिमाणे, उपपदादौ तत्परिच्छिन्ने हिरण्य च वर्तते, यथा - प्रश्थादिशब्दो दार्वादिनिर्मिते परिमाणे तत्परिमिते च व्रीह्यादौ वर्तते । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश पलं सुवर्णाश्त्वारः , द्वयोः सुवर्णयोः समाहारो द्विसुवर्णं पात्रादि । द्विसुर्णपरिमाणमिति । अत्र सुवर्णशब्द उपले वर्तते । काञ्चनधनमिति । परिमाणग्रहणमकृत्वा हिरण्यमित्युच्यमाने इहापि स्यात्, काञ्चनशब्दस्य हिरण्यवाचित्वात् । परिमाणवाची त्वेष न भवति ॥