6-2-52 अनिगन्तः अञ्चतौ वप्रत्यये प्रकृत्या पूर्वपदम् गतिः
index: 6.2.52 sutra: अनिगन्तोऽञ्चतौ वप्रत्यये
अनिगन्तो गतिः प्रकृतिस्वरो भवति अञ्चतौ वप्रत्यये परतः। प्राङ्, प्राञ्चौ, प्राञ्चः। प्राङ्, प्राञ्चौ, प्राञ्चः। स्वरितो वा अनुदात्ते पदादौ 8.2.6 इत्ययम् एकादेशः उदात्तः स्वरितो वा। पराङ्, पराञ्चौ, पराञ्चः। अनिगन्तः इति किम्? प्रत्यङ्, प्रत्यञ्चौ, प्रत्यञ्चः। कृदुत्तरपदप्रकृतिस्वर इह भवति। वप्रत्यये इति किम्? उदञ्चनः। चोरनिगन्तोऽञ्चतौ वप्रत्ययः इत्येव स्वरो भवति वप्रतिषेधेन। पराचः। पराचा।
index: 6.2.52 sutra: अनिगन्तोऽञ्चतौ वप्रत्यये
अनिगन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या । ये पराञ्चस्तान् (ये परा॑ञ्चस्तान्) । अनिगन्त इति किम् । प्रत्यञ्चो यन्तु (प्र॒त्यञ्चो॑ यन्तु) । कृत्स्वरात्परत्वादयमेव । जहि वृष्ण्यानि कृणुही पराचः (ज॒हि वृष्ण्या॒नि कृणु॒ही परा॑चः) । वप्रत्यये किम् । उदञ्चनम् ।
index: 6.2.52 sutra: अनिगन्तोऽञ्चतौ वप्रत्यये
वप्रत्यय इति। वकारः प्रत्ययो यस्य स तथोक्तः। प्राङिति। ऋत्विक् इत्यादिना क्विन्। स च वकारमात्र एव ककारादीनाम नुबन्धत्वात्। उगिदचाम् इति नुम् हल्ड।लदिसंयोगान्तलोपौ। क्विन्प्रत्ययस्य कुः इति कुत्वम् - चकारस्य ङ्कार। पराङिति। पारशब्द आद्यौदातः, तेनात्र स्वरितो वाऽनुदातेऽपदादौ इत्येष विधिर्न भवति। प्रत्यङिति। ननु चात्रान्तरङ्गत्वाद्यणादेशे कृते,अनिगन्तत्वात्प्रकृतिभावेन भवितव्यम्, अनिगन्तः इत्यस्य तु प्रतीच इत्यादिरवकाशः तत्र अचः इत्यकारलोपाद्यणादेशाभावः। न च यणादेशस्य स्थानिवद्भावोऽस्ति अपूर्वविधित्वात्, पूर्वपदस्य प्रकृतिस्वरविधानात् यतर्हि न्यधीचेत्यधेः प्रकृतिभावं शास्ति, एतज्ज्ञापयति-यण्विषयऽयं स्वरो न भवतीति। यदि स्याद्,अध्यङ्त्यित्राप्यऽनेनैव सिद्धं स्यात्। नैतदस्ति ज्ञापकम्,अधीच इत्यादौ यत्र यण् नास्ति तदर्थमेतत्स्यात् यतर्हि नेः प्रकृतिस्वरं शस्ति,निशब्दस्यैकाच्त्वाद्,नीच इत्यादावुतरस्य प्रकृतिस्वरस्य च विशेषो नास्ति। एतदषि न ज्ञापकम्, वचनसामर्थ्यादकृत एवान्तरङ्गे यणादेशे निशब्दस्य स्वरार्थेमेतत्स्यात्,यणाअदेशे कृते स्वरभाजोऽभावात् प्रत्यङदिषु तु यणादेश एवान्तरङ्गत्वात्प्राप्नोति,तस्माद्यण्विषये प्रतिपेधो वक्तव्यः न वक्तव्यः स्थानिवद्भावात्सिद्धम्। ननु चोक्तम् पूर्वपदस्य प्रकृतिस्वरो न यणः पूर्वस्य इति नैतदस्ति उक्तमेतत् पूर्वपदशब्दः पूर्वपदस्योद उदाते स्वरिते वा वर्तते इति। चोरिति। चौ इति यत्पूर्वपदन्तोदातत्वं विधी।यत् तच्चुशब्देन लक्ष्यते। चोः-चुस्वरादित्यर्थः। एष स्वरो भवतीति । विप्रतिषेधेनेति भावः। चुस्वरस्यावकाशः दधीचः दधीचात,यत्र गतिर्नास्ति अनिगन्तस्वरस्यावकाशः -पराङ्, पराञ्चौ,पराञ्चः, पारच इत्यादावुभयप्रसङ्गे परत्वादिनिगन्तस्वर एव भवति। नायं युक्तो विप्रततिषेधः, चुस्वरःसतिशिष्टः कथम् चौ इत्युच्यते, यत्रास्यैतद्रूपम्, भसंज्ञावनिमिते प्रत्यये,अल्लोपे च कृते सम्भवति एवं तर्हि नायं विप्रतिषेध उपन्यस्तः किं तर्हि इष्टिरेषा चोरनिगन्तोञ्चतावप्रत्यय इत्येष स्वर इष्यते इति॥