6-2-50 तादौ च निति कृति अतौ प्रकृत्या पूर्वपदम् गतिः अनन्तरः
तकारादौ च तुशब्दवर्जिते निति कृति परतो गतिरनन्तरः प्रकृतिस्वरो भवति। प्रक॑र्ता। प्रक॑र्तुम्। प्रकृ॑तिः। प्रकर्तेति तृन्नन्तः। कृत्स्वरबाधनार्थं वचनम्। तादाविति किम् ? प्र॒जल्पा॑कः। नितीति किम् ? प्र॒क॒र्ता। तृजन्तः। कृद्ग्रहणमुपदेशे ताद्यर्थम्। इहापि यथा स्यात् — प्रल॑पिता, प्रल॑पितुम् इति । अताविति किम् ? आ॒गन्तुः॑॥
तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गति प्रकृत्या । अग्नेरायो नृतमस्य प्रभूतौ (अग्ने॑रा॒यो नृत॑मस्य॒ प्रभू॑तौ) । सङ्गतिं गोः (सङ्ग॑तिं॒ गोः) । कृत्स्वरापवादः । तादौ किम् । प्रजल्पाकः । निति किम् । प्रकर्ता । तृजन्तः अतौ किम् । आगन्तुः ॥
प्रजल्पाक इति। जलपभिक्ष इति षाकन्। इह गतेः स्वरो विधीयते,क्रियायोगे च गतिसंज्ञा, धातुश्च क्रियावाची, धातोश्च द्वये प्रत्ययाः - कृतस्तिङ्श्च, तत्र तिङ्न्ते पूर्वपदस्यासम्भवात्कृदन्तादेव भविष्यति, नार्थः कृद्ग्रहणेन इदं तर्हि प्रयोजनम् -यथा तादिग्रहणं कृद्विशेषणं विज्ञायते तकारादौ निति कृतीति अन्यथा नितीत्यनेन प्रत्ययग्रहणपरिभाषया तदन्तस्योपस्थानातस्यैवोतरपदस्य तकारादित्वं विशेषणं स्यात्। ततश्चेहैव स्यात् - प्रतरिता, प्रतरितमिति इह न स्यात् - प्रकर्तुम्। नैतदस्ति प्रयोजनम् ,क्रियमाणेऽपि कृद्ग्रहणे अनिष्ट्ंअ शक्यं विज्ञातुम्तकारादावुतरपदे निति कृतीति, अक्रियमाणेऽपि चेष्टम् निद्यस्तकारादिस्तदन्तौतरपदेति ततश्च यथा उतश्च प्रत्ययात् इत्यत्रासंयोगपूर्वग्रहणेनोकारो विशेष्यते न प्रत्ययः, तथेहापि नित एव विशेषणं तादिग्रहणं भविष्यतीति अत्राह कृद्ग्रहणामुपदेशे ताद्यर्थमिति। अयमभिप्रायः - कृद्ग्रहणेन कृत्संज्ञाप्रवृत्तिकाले यस्तादिस्तत्रेति । किमेवं सति सिद्धं भवति तत्राह -इहापीति । असति कृद्ग्रहणे, तादिग्रहणेन स्वरप्रवृत्तिसमये यस्तादिस्तत्रेति विज्ञायेत, ततश्च प्रलपितेत्यादौ इडागमे कृते न स्यात् सम्प्रत्यतादित्वात् , कृद्ग्रहणातु भवति आदिग्रहणं तु शक्यमकर्तुम् ,यस्मिन्विधिस्तदादावल्ग्रहणे॥ तवै चान्तश्च युगपत्॥ अन्त उदातो भवतीति। कथं पूनरन्तरेणोदातग्रहणमुदातो भवतीत्ययमर्थो लभ्यते एवं मन्यते प्रकृत्येति वर्तते, तत्रैवमभिसम्बन्धः क्रियते-तवैप्रत्ययान्तस्य यः स्वरः प्रकृत्यार्श्यः प्राप्तः सोऽन्तस्य भवतीति, स चोदात एवति। युगपदिति पर्यायनिवृत्यर्थम्॥