गाधलवणयोः प्रमाणे

6-2-4 गाधलवणयोः प्रमाणे प्रकृत्या पूर्वपदम् तत्पुरुषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रमाणवाचिनि तत्पुरुषे समासे गाध लवण इत्येतयोरुत्तरपदयोः पूर्वपदं प्रकृतिस्वरं भवति। शम्ब॑गाधमुदकम्। अ॒रित्र॑गाधमुदकम्। तत्प्रमाणमित्यर्थः। गोल॑वणम्। अश्व॑लवणम्। यावद् गवे दीयते तावदित्यर्थः। षष्ठीसमासा एते। तत्र <<शमेर्बन्>> (प०उ० ४.९५) इति बन्प्रत्ययान्तत्वाच्छम्बशब्द आद्युदात्तः। अरित्रशब्दः <<अर्तिलूधूसू०>>३.२.१८४ इतीत्रप्रत्ययान्तो मध्योदात्तः। गोशब्दो डोप्रत्ययान्तः (प०उ० २.६८) अन्तोदात्तः। अश्वशब्दः <<अशूप्रुषि०>> (प०उ० १.१५१) इति क्वन्प्रत्ययान्त आद्युदात्तः। प्रमाणमियत्तापरिच्छेदमात्रमिह द्रष्टव्यम्, न पुनरायाम एव। स्वरव्यङ्ग्यं च प्रमाणविशेषविषयत्वमेतेषाम्। प्रमाण इति किम् ? प॒र॒म॒गा॒धम्। प॒र॒म॒ल॒व॒णम्॥

Siddhanta Kaumudi

Up

एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः । गोलवणम् । यावद्गवे दीयते तावदित्यर्थः । अरित्रशब्दः इत्रान्तो मध्योदात्तः । प्रमाणमियत्ता परिच्छेदमात्रं न पुनरायाम एव । प्रमाणे किम् । परमगाधम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

शम्बगाधमिति।गाधृ प्रतिष्ठायाम्,गाध्यत तैति गाधः अर्द्धर्चादिः, इयतायाः परिच्छितः - इयतापरिच्छेदः । क्रियाशब्दोऽत्र प्रमाणशब्दो गृह्यते, न त्वायोममाने रूढ इत्यर्थः ॥