तृतीया कर्मणि

6-2-48 तृतीया कर्मणि प्रकृत्या पूर्वपदम् क्ते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मवाचिनि क्तान्त उत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। अ॒हिह॑तः, अहि॑हतः। व॒ज्रह॑तः। म॒हा॒रा॒जह॑तः। न॒खनि॑र्भिन्ना। दात्र॑लूना। <<आङि श्रीहनिभ्यां ह्रस्वश्च>> (प०उ० ४.१३९) इति अहिरन्तोदात्तो व्युत्पादितः। केचिदाद्युदात्तमिच्छन्ति। वज्रो रक्प्रत्ययान्तः। महाराजष्टच्प्रत्ययान्तः। नास्य खमस्तीति बहुव्रीहौ नकुलनख० ६.३.७५ इति नखशब्दो निपातितः। तेन <<नञ्सुभ्याम्>> ६.२.१७२ इत्यन्तोदात्तः। दात्रशब्दो <<दाम्नीशस०>> ३.२.१८२ इति ष्ट्रन्प्रत्ययान्तः। कर्मणीति किम्? रथेन यातो र॒थ॒या॒तः। गत्यर्थत्वात् कर्तरि क्तः॥

Siddhanta Kaumudi

Up

कर्मवाचके क्तान्ते परे तृतीयान्तं प्रकृत्या । त्वोतासः । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः । कर्मणि किम् । रथेन यातो रथयातः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अयमपि थाथादिस्वरपवादः। अहिरन्तोदात इति । आङ्पूर्वाद्धनो डिप्रत्ययः, आङ्श्च ह्रस्वः। आहन्ति परान्, आहन्यते परैरिति वा अहिः। केचिदिति। ते तत्रोदातग्रहणमनुवर्तयन्ति, तथात च -अहन्नहिम्, अहिरिव भोगैरिति आद्यौदातमधीयते ॥