अहीने द्वितीया

6-2-47 अहीने द्वितीया प्रकृत्या पूर्वपदम् क्ते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अहीनवाचिनि समासे क्तान्त उत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। क॒ष्टश्रि॑तः। त्रिश॑कलपतितः। ग्राम॑गतः। कष्टशब्दोऽन्तोदात्तः। त्रीणि शकलान्यस्येति त्रिशकलः। बहुब्रीहिस्वरेणाद्युदात्तः। ग्रामशब्दो नित्स्वरेणाद्युदात्तः। अहीन इति किम्? का॒न्ता॒रा॒ती॒तः। यो॒ज॒ना॒ती॒तः॥ द्वितीयानुपसर्ग इति वक्तव्यम्॥ इह मा भूत् — सु॒ख॒प्रा॒प्तः। दुः॒ख॒प्रा॒प्तः। सु॒खा॒प॒न्नः। दुः॒खा॒पन्नः। अन्तः <<थाथ०>> ६.२.१४४ इत्यस्यापवादोऽयम्॥

Siddhanta Kaumudi

Up

समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या । कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । ग्रामशब्दो नित्स्वरेण । अहीने किम् । कान्तारातीतः ॥ अनुपसर्ग इति वक्तव्यम् ॥ नेह सुखप्राप्तः । थाथ-<{SK3878}> इत्यस्यापवादोऽयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

हीनम् - त्यक्तम्। अहीनयाचिनि समास इति । पूर्वपदद्वारेण तसमासस्याहिनवाचित्वम्। द्वितीयानुपसर्ग इति वक्तव्यमिति । अहीनग्रहणमपनीय अनुपसर्गग्रहणं कर्तव्यम्, व्यापकत्वादित्यर्थः। इह मा भूदिति। इहापि मा भूदित्यर्थः। अनुपसर्गग्रहणे चेह क्रियमाणे प्रवृद्धादिषु खट्वारूढशब्दो न पाठयः, आरूढशब्दस्य सोपसर्गत्वात्। एतत्स्वराभावे थाथादिस्वरेणैवान्तोदातस्य सिद्धत्वात्॥