6-2-46 कर्मधारये अनिष्ठा प्रकृत्या पूर्वपदम् क्ते
कर्मधारये समासे क्त ान्त उत्तरपदेऽनिष्ठान्तं पूर्वपदं प्रकृतिस्वरं भवति। श्रेणि॑कृताः। ऊ॒ककृ॑ताः। पू॒गकृ॑ताः। नि॒धन॑कृताः। श्रेणिशब्द आद्युदात्तः। ऊकपूगशब्दावन्तोदात्तौ। निधनशब्दोऽयं मध्योदात्तः। कर्मधारय इति किम्? श्रेण्या कृतं श्रे॒णि॒कृ॒तम्। अनिष्ठेति किम्? कृ॒ता॒कृ॒तम्॥
क्तान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्तः । पूगकृताः । पूगशब्दोऽन्तोदात्तः । कर्मधारये किम् । श्रेण्या कृतं श्रेणिकृतम् । अनिष्ठा किम् । कृताकृतम् ॥
श्रिञ् सेवायाम्, औणादिके निन्प्रत्यये श्रेणिः, मुदि ग्रो गग्गौ,बहुलवचनात्पूङेऽपि गक् पूगः। कृताकृतमिति । क्तेन नञ्विशिष्टेनानञ् इति समासः । अनिहष्टेत्यनुच्यमानेऽत्रैव स्यात्, अयं हि क्तसंशब्द नेन विहितत्वाच्छ्राएण्यादिसमासादपि प्रतिपदोक्तः ॥