6-2-45 क्ते च प्रकृत्या पूर्वपदम् चतुर्थी
क्तान्ते चोत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति। गोहि॑तम्। अश्व॑हितम्। म॒नु॒ष्य॑हितम्। गोर॑क्षितम्। अश्व॑रक्षितम्। वन॑ ताप॒सर॑क्षितम्। अश्वशब्द आद्युदात्तः। मनुष्यशब्दोऽन्तस्वरितः। परिशिष्टपूर्वपदमन्तोदात्तम्। गोभ्यो रक्षितमिति संप्रदाने चतुर्थी॥
क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या । गोहितम् ॥
गोभ्यो रक्षितं दीयत इति सम्प्रदाने चतुर्थीति। अथ तादर्थ्ये चतुर्थ्या को दोषः चतुर्थो तदर्थे इत्येव स्वरस्यसिद्धत्वात् । नैतदस्योदाहरणमुपपद्यते कथम् प्रकृतिविकारभावे स्वरः इत्युक्तम्, न चात्र प्रकृतिविकारभवः सत्यम् समासविधौ तु रक्षितग्रहणस्येदं प्रयोजनं दर्शितम् ॥