अर्थे

6-2-44 अर्थे प्रकृत्या पूर्वपदम् चतुर्थी

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

चतुर्थीति वर्तते। अर्थशब्द उत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति। मात्र इदं मा॒त्र॑र्थम्। पि॒त्र॑र्थम्। दे॒वता॑र्थम्। अति॑थ्यर्थम्। मातृपितृशब्दावन्तोदात्तावुणादिषु निपातितौ। देवताशब्दो लित्स्वरेण मध्योदात्तः। अतिथिरिति <<अतेरिथिन्>> (द०उ० १.४४) इतीथिन्प्रत्ययान्तः। तदर्थविशेषा एव दारुहिरण्यादयो भवन्ति, न त्वर्थशब्दवाच्यं सामान्यमित्यतदर्थार्थोऽयमारम्भः। केचित् पुनराहुः — ज्ञापकार्थमिदम्। एतदनेन ज्ञाप्यते — पूर्वो विधिः प्रकृतिविकृत्योः समासे भवति। अ॒श्व॒घा॒सः। श्व॒श्रू॒सु॒रम् इत्यत्र सत्यपि तादर्थ्ये न भवति॥

Siddhanta Kaumudi

Up

अर्थे परे चतुर्थ्यन्तं प्रकृत्या देवार्थम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

तदर्थविशेषा एव दारुहिरण्यादयो भवन्तीति। दारुहिरण्यादयो विशेषा एव तदर्था भवन्तीत्यर्थः । तादर्थ्यं हि तच्छेषभावः, सच विशेषाणमेव भवति, न सामान्यस्यति मन्यते । केचित्पुनरित्यादि । त एवं मन्यन्ते नेयं राजाज्ञा - विशेषा एव तदर्था इति, तेन सामान्यवाचिन्यप्यर्थशब्दे पूर्वेणैव सिद्धम् इति । अश्पघास इति । ननु च तदर्थेन प्रकृतिविकारभावे समासः इत्यक्तमश्वघासादयः षष्ठीसमासाः इति च एवं मन्यते -यदात्र प्रकृतिविकारभावे स्वे इति स्थितम् ,तदाश्वघासादौ चतुर्थोसमासेऽपि दोष इति। श्वश्रुश्वशुरमिति। विभाषा सेना इत्यादिना नपुंसकत्वम्॥