6-2-43 चतुर्थी तदर्थे प्रकृत्या पूर्वपदम्
चतुर्थ्यन्तं पूर्वपदं तदर्थ उत्तरपदे तदभिधेयार्थं यत् तद्वाचिन्युत्तपदे प्रकृतिस्वरं भवति। तदिति चतुर्थ्यन्तस्यार्थः परामृश्यते। यूप॑दारु। कु॒ण्ड॒लहि॑रण्यम्। यूपशब्द आद्युदात्तः। <<कुसुयुभ्यश्च>> (द०उ० ७.५) इत्यत्र निदिति वर्तते। कुण्डलशब्दोऽपि <<वृषादिभ्यश्चित्>> (प०उ० १.१०६) इति कलप्रत्ययान्तोऽन्तोदात्तः। रथ॑दारु। व॒ल्लीहि॑रण्यम्। रथशब्द आद्युदात्तः। <<हनिकुषि०>> (प०उ० २.२) इत्यादिना क्थन्प्रत्ययः। वल्लीशब्दो ङीषः स्वरेणान्तोदात्तः। तदर्थ इति किम्? कु॒बे॒र॒ब॒लिः। प्रकृतिविकारभावे स्वरोऽयमिष्यते॥
चतुर्थ्यन्तार्थाययत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या । यूपाय दारू यूपदारू ॥
तस्मै इदं तदर्थम् , तच्छब्देन चतुर्थ्यन्तार्थ उच्यते, यदाह - तदभिधेयार्थं यदिति। तस्य चतुर्थ्यन्तस्य यदभिधेयं तदर्थमित्यर्थः । रमन्तऽस्मिन्स्थिता इति रथः, हनिकृषिनीरमिकशिभ्यः क्यन्, अनुदातोपदेश इत्यनुनासिकलोपः,वल्लीशब्दो गौरादिङीषन्तः । तदर्थ इति किम्,कुबेरबलिरिति । अत्र तादर्थ्यस्य भावाद् गोसुखमिति प्रत्यदाहार्यं मन्यन्ते । प्रकृतिविकारभावे स्वरोऽयमिष्यत इति । समासप्रकरण एवैतत्सम्यगुपपादितम्, आत्रापि ज्ञापकं वक्ष्यति॥