कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूःपण्यकम्बलो दासीभाराणां च

6-2-42 कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवातैतिलकद्रूपण्यकम्बलः दासीभाराणां च प्रकृत्या पूर्वपदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कुरुगार्हपत रिक्तगुरु असूतजरती अश्लीलदृढरूपा पारेवडवा तैतिलकद्रू पण्यकम्बल इत्येते समासास्तेषां दासीभारादीनां च पूर्वपदं प्रकृतिस्वरं भवति। कुरूणां गार्हपतं कु॒रुगा॑र्हपतम्। <<कृग्रोरुच्च>> (प० उ० १.२४) इति कुरुशब्दः कुप्रत्ययान्तोऽन्तोदात्तः॥ कुरुवृज्योर्गार्हपत इति वक्त व्यम्॥ वृजीनां गार्हपतं वृजि॑गार्हपतम्। वृजिशब्द आद्युदात्तः। रिक्त ो गुरुः रिक्त॑ गुरुः, रि॒क्त गु॑रुः। <<रिक्ते विभाषा>> ६.१.२०८ इति पूर्वपदमाद्युदात्तमन्तोदात्तं वा। असूता जरती असू॑तजरती। अश्लीला दृढरूपा अश्ली॑ल दृढरूपा। अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः। श्रीर्यस्यास्ति तत् श्लीलम्। सिध्मादेराकृतिगणत्वाद् लच्। कपिलकादित्वात् च लत्वम्। अश्लीलदृढरूपेति हि संस्थानमात्रेण शोभना निःश्रीका लावण्यविरहितोच्यते। पारेवडवेव पा॒रेव॑डवा। निपातनादिवार्थे समासो विभक्त्यलोपश्च। पारशब्दो घृतादित्वाद् (फिट् सू० २१) अन्तोदात्तः। तैतिलानां कद्रूः त॒ैति॒लक॑द्रूः। तितिलिनोऽपत्यं छात्रो वा तैतिल इत्यणन्तः। पण्य॑कम्बलः। पण्यशब्दो यदन्त्वादाद्युदात्तः॥ पण्यकम्बलः संज्ञायामिति वक्त व्यम्॥ अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव। प्रतिपदोक्ते हि कृत्यानां समासे २.१.६८ द्वितीयाकृत्याः ६.२.२ इत्येष विहितः स्वरः। दास्या भारो दा॒सीभा॑रः। दे॒वहू॑तिः। दे॒वजू॑तिः। दे॒वसू॑तिः। दे॒वनी॑तिः। अन्तोदात्तं पूर्वपदम्। वसु॑नीतिः। वसुशब्द आद्युदात्तः। <<शृस्वृस्निहित्रप्यसिवसि०>> (प०उ० १.१०) इत्यत्र हि <<धान्ये नित्>> (प०उ० १.९)<<इति वर्तते। ओष॑धिः। ओषो धीयतेऽस्यामिति ‘कर्मण्यधिकरणे च>> ३.३.९३ इति किप्रत्ययः। ओषशब्दो घञन्तत्वादाद्युदात्तः। च॒न्द्रमाः॑। <<चन्द्रे मो डित्>> (प०उ० ४.२२९) इत्यसिप्रत्ययान्तोऽयम्। चन्द्रशब्दस्तु रक्प्रत्ययान्तत्वादन्तोदात्तः। यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते, न च विहितम्, स सर्वो दासीभारादिषु द्रष्टव्यः॥

Siddhanta Kaumudi

Up

एषां सप्तानां समासानां दासीभारादेश्च पूर्वपदं प्रकृत्या । कुरूणां गार्हपतं कुरुगार्हपतम् । उप्रत्ययान्तः । कुरुः ।<!वृजेरिति वाच्यम् !> (वार्तिकम्) ॥ वृजिगार्हपतम् । वृजिराद्युदात्तः । रिक्तो गुरुः रिक्तगुरुः ।रिक्ते विभाषा <{SK3696}> इति रिक्तशब्द आद्युदात्तः । असूता जरती असूतजरती । अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीर्यस्यास्ति तत् श्लीलम् । सिध्मादित्वाल्लच् । कपिलकादित्वाल्लत्वम् । पारे वडवेव पारेवडवा । निपातनादिवार्थे समासो विभक्त्यलोपश्च । पारशब्दो घृतादित्वादन्तोदात्तः । तैतिलानां कद्रूः तैतिलकद्रूः । तितिलिनोऽपत्यं छात्रो वा इत्यण्णन्तः । पण्यशब्दो यदन्तत्वादाद्युदात्तः ।<!पण्यकम्बलः संज्ञायामिति वक्तव्यम् !> (वार्तिकम्) ॥ अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव प्रतिपदोक्ते समासे कृत्याः <{SK2831}> इत्येष स्वरो विहितः । दास्या भारो दासीभारः । देवहूतिः । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न विशिष्यवचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः ॥ स राये स पुरंध्याम् (स रा॒ये स पुरं॑ध्याम्) । पुरं शरीरं धीयतेऽस्यामिति कर्मण्यधिकरणे च <{SK3271}> इति किप्रत्ययः । अलुक् छान्दसः । (फिट्)नब्विषयस्य इत्याद्युदात्तः पुरशब्दः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अत्र कुरुगार्हपतेत्येवमादयः पण्यकम्बलपर्यन्ताः सप्त समासाः । तत्रादितो द्वाविविभक्तिकौ, इतरे प्रथमैकवचनान्ताः। सा च प्रथमा सुब्व्यत्ययेन षष्ठयाः स्थाने द्रष्टव्या । दासीभाराणामिति । बहुवचननिर्देशादाद्यर्थो व्याख्यायते। कुर्भ्रुश्च, कृग्रो रुच्च - कुरुः, वृजी वर्जने निदित्यधिकारे इगुपधात्किः - वृजिः, फिषि तु इगन्तानाञ्च द्व्यषाम् इति पत्रेऽन्तोदातः। तस्यार्थः-नजपदशब्दानामिति वर्तते,अन्तः पूर्वो वा इति च,जनपद वाचिनामिगन्तानां द्व्यचामादिरुदातो भवति अन्तो वा - काशयः ,चेदयः। एतेन कुरुशब्दो व्याख्यातः। रिक्तपूर्वादयः कर्मधारयाः। श्रीर्यस्यास्तीति श्रीशब्दो लावण्यवचनः । कपिलकादित्वाल्लल्वमिति । कृपो रो लः इत्यत्रैतद्वक्ष्यते । श्रीर्यस्यास्ति तच्छ्रीलशब्देनोच्यत इति । एतदेवोपपादयति - अशलीलदृढरूपेति हीति । संस्थानमात्रेण शोभनेति। कुब्जत्वादीनामभावात्, दृढत्वाच्च संस्थानस्य । मात्रशब्दव्यार्व्यं दर्शयति - निःश्रीकेति । असेयैवार्यं विस्पष्टीकरोति - लावण्यरहितोति । तितिलिनोऽपत्यमिति। तिलशब्दान्मत्वर्थीय इनिः, पृषोदरादित्वातिशब्दस्य द्विर्वचनम्। तत्र यदापत्येऽर्थेऽण् तदा नस्तद्धिते इति टिलोपः यदा तु छात्त्रे तदा नान्तस्य टिलोपे इत्यादिनोपसङ्ख्यानेन टिलोपः । ये तु तत्र तैतिलिशब्दं पठन्ति, तेऽत्रापि तैतिलिनोऽपत्यमिति विगृह्णन्ति, पृषोदरादित्वेनेव च रूपसिद्धिः । पण्यशब्दः अवद्यपण्य इत् यदन्तः यतोऽनावः इत्याद्यौदातः। पण्यकम्बलः संज्ञायामिति । नियतप्रमाणस्य वियतमूल्यस्य कम्बलस्यैषा संज्ञा । समासन्तोदातत्वमेवेति । ननु च पण्यशब्दस्य कृत्यप्रत्ययान्तत्वात् तत्पुरुषे तुल्यार्थ इति पूर्वपदप्रकृतिस्वरेण भाव्यमत आह प्रतिपदोक्ते हीति । कृत्यतुल्याख्या अजात्या इति यः कृत्यसमासः प्रतिपदोक्तः, तत्रैव स स्वरः । अयं तु विशेष्यण इति सामान्यलक्षणविहितः,कम्बलशब्दस्य जातिशब्दत्वात्। कृत्यतुल्याख्या अजात्या इत्येतद्धि गुणक्रियावाचिनामनियते पूर्वनिपात्प्रसङ्गे कृत्यान्तस्य पूर्वनिपातार्थम्, न तु जातिप्रतिषेधार्थम् । आनात्येति तु वचनं न्ययसिद्धार्थानुवाद एवेति स्थितिः। चन्द्रे माङे डिच्चेति मिथुनेऽसिः, पूर्ववच्च एसर्वमित्यसिप्रत्ययः प्रकृतः। चन्द्रशब्द उपपदे माङ्माने इत्यस्मादसिप्रत्ययो भवति डिच्च, डित्वाट्टिलोपः, चन्द्रमिव मीयते चन्द्रमाः। चन्द्रमिति रजतम्, अमृतं च। चन्द्र इति वा मीयते चन्द्रमाः। चन्द्रशब्दस्तु स्फायितञ्चि इत्यादिना रक्प्रत्ययान्तः। यस्य तत्पुरुषस्वेत्यादिना दासीभारादेराकृतिगणत्वं दर्शयति॥