6-2-41 गौः सादसादिसारथिषु प्रकृत्या पूर्वपदम्
गोशब्दः पूर्वपदं साद सादि सारथि इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति। गोः सादो गोसा॑दः। गां सादयतीति वा गोसा॑दः। गोः सादिर्गोसा॑दिः। गोसा॑रथिः॥
गोसादः । गोसादिः । गोसारथिः ॥
गोसादा इति । सदेर्घञ्, ततः, षष्ठीसमासः । गां सादयतीति वेति । सदेर्ण्यन्तात्कर्मण्यण्, तस्मादेव णिनिः - गोसादी । अत्र सादसादिनोः कृत्स्वरस्यापवादः, सारथौ तु समासस्वरस्य॥