6-2-3 वर्णः वर्णेषु अनेते प्रकृत्या पूर्वपदम् तत्पुरुषे
प्रकृत्या पूर्वपदं तत्पुरुष इति च वर्तते। वर्णं वर्णवाचि पूर्वपदं वर्णवाचिष्वेवोत्तरपदेषु एतशब्दवर्जितेषु परतस्तत्पुरुषे समासे प्रकृतिस्वरं भवति। कृ॒ष्णसा॑रङ्गः, लोहि॑तसारङ्गः। कृष्णक॑ल्माषः। लोहि॑तकल्माषः। <<कृषेर्वर्ण>> (प०उ० ३.४) इति कृष्णशब्दो नक्प्रत्ययान्तोऽन्तोदात्तः। लोहितशब्दोऽपि <<रुहे रश्च लो वा>> (प०उ० ३.९४) इतीतन्प्रत्ययान्त आद्युदात्तः। वर्ण इति किम् ? प॒र॒म॒कृ॒ष्णः। वर्णेष्विति किम् ? कृ॒ष्ण॒ति॒लाः। अनेत इति किम् ? कृ॒ष्ण॒ैतः। लो॒हि॒त॒ैतः॥
वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः । लोहितकल्पमाषः । कृष्णशब्दो नक्प्रत्ययान्तः लोहितशब्द इतन्नन्तः । वर्णः किम् । परमकृष्णः । वर्णेषु किम् । कृष्णतिलाः अनेते किम् । कृष्णैतः ॥
अनेते तैति प्रतिषेधाद्वहुवचननिर्देशाच्चोतरपदे स्वरूग्रहणं न भवति, तत्साहचर्यात्पूर्वपदेऽपि। कृष्णाशब्दो नक्प्रत्ययान्तोऽन्तोदात इति । फिषि तु कृष्णस्यामृगाख्या चेत् ति च्छन्दस्यन्तोदातत्वम्, अन्यत्राद्यौदातत्वं व्यवस्थितम्॥