6-2-39 क्षुल्लकः च वैश्वदेवे प्रकृत्या पूर्वपदम् महान्
क्षुल्लक इत्येतत् पूर्वपदं महांश्च वैश्वदेव उत्तरपदे प्रकृतिस्वरं भवति। क्षु॒ल्ल॒कव॑ैश्वदेवम्। म॒हाव॑ैश्वदेवम्। क्षुयं लातीति क्षुल्लः। तस्मादज्ञातादिषु प्रागिवात् केऽन्तोदात्तः क्षुल्लकशब्दः॥
चान्महान् । क्षुल्लकवैश्वदेवम् । महावैश्वदेवम् । क्षुधं लातीति क्षुल्लः । तस्मादज्ञातादिषु केऽन्तोदात्तः ॥
क्षुधं लातीति क्षुल्लः। आतोऽनुपसर्ग कः, तोर्लि इति परसवर्णः ॥