महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु

6-2-38 महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु प्रकृत्या पूर्वपदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रकृत्या पूर्वपदमिति वर्तते, द्वन्द्व इति निवृत्तम्। महानित्येतत् पूर्वपदं व्रीहि अपराह्ण गृष्टि इष्वास जाबाल भार भारत हैलिहिल रौरव प्रवृद्ध इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति। म॒हाव्री॑हिः। म॒हाप॑राह्णः। म॒हागृ॑ष्टिः। म॒हेष्वा॑सः। म॒हाजा॑बालः। म॒हाभा॑रः। म॒हाभा॑रतः। म॒हाहै॑लिहिलः। म॒हारा॑ैरवः। म॒हाप्॑रवृद्धः। महच्छब्दोऽन्तोदात्तः। तस्य प्रतिपदोक्तो यः समासः <<सन्महत्परमोत्तमोत्कृष्टाः०>> २.१.६१ इति तत्रैव स्वरः। तेनैषां षष्ठीसमासोऽन्तोदात्त एव भवति — महतो व्रीहिः म॒ह॒द्व्री॒हिरिति। <<कर्मधारयेऽनिष्ठा>> ६.२.४६ इत्ययमपि श्रेण्यादिसमासे २.१.५९ विधिरिति प्रवृद्धशब्द इह पठ्यते॥

Siddhanta Kaumudi

Up

महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु । महाव्रीहिः । महापराह्णः । महागृष्टिः । महेष्वासः । महाहैलिहिलः । महच्छब्दोऽन्तोदात्तः । सन्महत्-<{SK740}>इति प्रतिपदोक्तसमास एवायं स्वरः । नेह । महतो व्रीहिर्महह्व्रीहिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up