6-2-37 कार्तकौजपादयः च प्रकृत्या पूर्वपदम् द्वन्द्वे
कार्तकौजपादयो ये द्वन्द्वास्तेषु पूर्वपदं प्रकृतिस्वरं भवति। प्रकृतिस्वरपूर्वपदाः कार्तकौजपादयो भवन्ति। विभक्त्यन्तानां पाठो वचनविवक्षार्थः। चकारो द्वन्द्वाधिकारानुवृत्त्यर्थः। का॒र्तका॑ैजपौ। कृतस्यापत्यं कुजपस्यापत्यम् इत्यणन्तावेतौ। साव॑र्णिमाण्डूकेयौ। सावर्णिरिञन्तः। अ॒व॒न्त्य॑श्मकाः। अवन्तेरपत्यानि बहूनि, तन्निवासो जनपदोऽवन्तयः। तथाश्मकाः। प॒ैलश्या॑पर्णेयाः। युवद्वन्द्वोऽयम्। पीलाया अपत्यं पैलः, तस्यापत्यं युवेति <<अणो द्व्यचः>> ४.१.१५६ इति विहितस्य फिञः <<पैलादिभ्यश्च>> २.४.५९ इति लुक्। श्यापर्णशब्दो बिदादिः, तस्यापत्यं स्त्री श्यापर्णी, तदपत्यं युवा श्यापर्णेयः। बहुवचनमतन्त्रम्, तेन पै॒लश्या॑पर्णेयौ इत्यत्रापि भवति। क॒पिश्या॑पर्णेयाः। कपिरन्तोदात्तः, तस्यापत्यं बहुत्वे <<कपिबोधादाङ्गिरसे>> ४.१.१०७ इत्युत्पन्नस्य यञो <<यञञोश्च>> २.४.६४ इति लुक्, तेनात्र बहुत्वमाश्रीयत एव। श॒ैति॒का॒क्षपा॑ञ्चालेयाः। शितिकाक्षो नाम ऋषिः, तस्यापत्यमिति ऋप्यण् तदपत्ये यूनि य इञ् तस्य <<ण्यक्षत्रियार्षञितो यूनि लुक्०>> २.४.५८ इति लुक्। पाञ्चालस्यापत्यं स्त्री पाञ्चाली, तदपत्यं युवा पाञ्चालेयः। अत्रापि बहुवचनमविवक्षितमिति श॒ैति॒का॒क्षपा॑ञ्चालेयौ इत्यत्रापि भवति। कटु॑कवार्चलेयाः। कटुकस्यापत्यमिति <<अत इञ्>> ४.१.९५, तस्य <<बह्वच इञः प्राच्यभरतेषु>> २.४.६६ इति बहुषु लुक्। वर्चलाया अपत्यं वार्चलेयः। शा॒क॒लशु॑नकाः। शकलस्यापत्यं शाकल्यः, तस्य छात्राः शाकलाः। <<कण्वादिभ्यो गोत्रे>> ४.२.१११ इत्यण्। शुनकस्यापत्यमिति बिदादिभ्योञ् ४.१.१०४ तस्य बहुषु लुक्। शाकलशणका इति केचित् पठन्ति। तेषां शणकशब्दादुत्पन्नस्येञो <<बह्वच इञः प्राच्यभरतेषु>> २.४.६६ इति बहुषु लुक्। शुन॑कधात्रेयाः। धात्र्या अपत्यं धात्रेयः। शण॑कबाभ्रवाः। बभ्रोरपत्यं बाभ्रवः। आ॒र्चा॒भिमा॑ैद्गलाः। ऋचाभेन प्रोक्तमधीयत आर्चाभिनः। वैशम्पायनान्तेवासित्वाद् णिनिः। मुद्गलः कण्वादिः। तदपत्यस्य छात्रा मौद्गलाः। कु॒न्तिसु॑राष्ट्राः। कुन्तेः सुराष्ट्रस्य चापत्येषु बहुषु तन्निवासे वा जनपदे द्वन्द्वोऽयम्। कुन्तिचिन्तिशब्दावन्तोदात्तौ। चि॒न्ति — सु॑राष्ट्राः। कुन्तिसुराष्ट्रवत्। त॒ण्डव॑तण्डाः। पचाद्यच्प्रत्ययान्तावन्तोदात्तावेतौ गर्गादिषु पठ्येते। तत्रापत्यबहुत्वे यञो लुक् क्रियते। ग॒र्गव॑त्साः। अत्राप्यपत्यबहुत्वे यञो लुक्। अवि॑मत्तकामविद्धाः। अविमत्तशब्दो नञ्स्वरेणाद्युदात्तः। द्वयोरप्येतयोरपत्येषु बहुषु इञो ’बह्वच इञः प्राच्यभरतेषु’ २.४.६६ इति लुक् क्रियते। बा॒भ्॒रवशा॑लङ्कायनाः। बभ्रोरपत्यं बाभ्रवः। <<शलङ्कु शलङ्कं च>> (४.१.९९ ग०सू०) इति शालङ्कायनः। बा॒भ्॒रवदा॑नच्युताः। दानच्युतशब्दादिञो <<बह्वच०>> २.४.६६ इति लुक्। क॒ठका॑लापाः। कठेन प्रोक्त मधीयते कठाः। वैशम्पायनान्तेवासित्वाद् णिनिः। तस्य <<कठचरकाल्लुक्>> ४.३.१०७। कलापिना प्रोक्तमधीयते कालापाः। <<कलापिनोऽण्>> ४.३.१०८ इत्यण्प्रत्ययः, तस्मिन् <<इनण्यनपत्ये>> ६.४.१६४ इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पीत्यादिना (६.४.१४४ वा०) उपसंख्यानेन टिलोपः। क॒ठ का॑ैथुमाः। कुथुमिना प्रोक्त मधीयत इति <<प्राग्दीव्यतोऽण्>> ४.१.८३। तत्र पूर्ववत् टिलोपः। का॒ैथु॒मला॑ैकाक्षाः। लोकाक्षेण प्रोक्त मधीयते लौकाक्षाः। लोकाक्षस्य वापत्यं लौकाक्षिः। तस्य छात्रा लौकाक्षाः। स्त्रीकु॑मारम्। स्त्रीशब्दोऽन्तोदात्तः। मा॒ैदप॑ैप्पलादाः। मुदस्यापत्यं मौदिः। तस्य छात्रा मौदाः। तथा पैप्पलादाः। मौदपैप्पलादा इति द्विः पठ्यते तस्य प्रयोजनं पक्षे समासान्तोदात्तत्वमेव यथा स्यादिति। व॒त्सज॑रत्। वत्सश्च जरच्च। वत्सशब्दोऽन्तोदात्तः। सा॒ैश्रु॒तपा॑र्थवाः। सुश्रुतस्य पृथोश्च छात्राः। <<प्राग्दीव्यतोऽण्>> ४.१.८३। ज॒रामृ॑त्यू। या॒ज्या॑नुवाक्ये। यजेर्ण्यत्। <<यजयाच०>> ७.३.६६ इति कुत्वाभावः। <<तित् स्वरितम्>> ६.१.१८५ इत्यन्तस्वरितः। अनुवाक्येति वचेरनुपूर्वाद्ण्यत्। आचार्योपसर्जनान्तेवासिनामिह पाठः प्रपञ्चार्थः॥
एषां द्वन्द्वे पूर्वपदं प्रकृत्या । कार्तकौजपौ । कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमण्डूकेयौ ॥
प्रकृतिस्परपूर्वपदा इति । प्रकृतिशब्दः स्पाभाविक् वर्त ते, प्रकृति - स्वाभाविकः स्वरो येषां तानि प्रकृतिस्वराणि, एवंविधानि पूर्वपदानि येष्विति बहुव्रीहिः। कृतस्यापत्यम्, कुजस्यापत्यमिति । आणन्तानेताविति । ऋषिवाचित्वादाभ्यामण् । उतरपदस्य व्युत्पत्तिप्रदर्शनं प्रासङ्गिकम्, पूर्वपदस्यैव तु स्वरसिद्धये प्रदर्शनीयम् । माण्डूअकेशब्दः ढक्च मण्डूअकात् इति ढगन्तः। अवन्त्यश्मका इति। अवन्तिशब्दोऽन्तोदातः, तस्मात् वृद्धेत्कोसलाजादाङ् तस्य तद्राजत्वाद्बहुषु लुक्, अवन्तीनां निवासो जनपदः, जातुरर्थिकस्याणा जनपदे लुक्। अश्मकशब्दात् साल्वावयव इत्यादिना इञ्, लुगादि पूर्ववत्। श्यापर्णीति । शाण्Çóरवाद्यञो ङीन् । कपिरन्तोदात इति । प्रातिपदिकस्वरेण, कमु कान्तौ क्तिच्, पृषोदरादित्वादत उत्वम् । कुन्तिशब्दोऽन्तोदातः, अवन्तिवत्कुन्तयः। शोभनं राष्ट्रमस्य सुराष्ट्रः, तस्यापत्यानि बहूनि जनपदशब्दात्क्षत्रियादञ् लुगादि पूर्ववत् । चिति स्मृत्याम्, क्तिच्, कुन्तिवच्चिन्तयः । तडि ताडने, तण्डः, तस्मादेवावपुर्वाद्वतण्डः, वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः इत्यकारलोपः। मदी हर्षे, विपूर्वात् क्तः, न ध्याख्या इत्यादिना नत्वाभावः, न विमतोऽविमतः। शलङ्कु शलङ्कं चेति । नडादिष्वेतत्पठ।ल्ते । बभ्रोरपत्यं बाभ्रतवः, अण् । दानच्चयुतो दानच्युतः तदपत्यमपि दानच्युत एव। कटशब्दः पचाद्यजन्तः, लोकेऽक्षि यस्य स लोकक्षः, तस्यापत्यं लौकाक्षिः, तस्य एछात्रा लौकाक्षाः । स्त्रीकुमारमिति । समाहरद्वन्द्वः । मुद हर्षे, इगुपधलक्षणः कः, मुदः, पिप्पतमतीति पिप्पलादः, कर्मण्यण् । वदेः सः, वत्सः, जीर्यतेरतृन्, जरन् , तयोः समाहारद्वन्द्वः । षिद्भिदादिभ्योऽङ्, जरा । भुजिमृङ्भ्यां युक्त्युकौ मृत्युः ॥ एमहान् व्रीह्यपराह्वगृष्टीष्वासजाबालभारभारतहेलिहिलरौरवप्रवृद्धेषु॥ 6 - 2।38 ॥ महच्छब्दोऽन्तोदात इति । वर्तमाने पृषद्बृहन्महनत् इत्यत्र तथा निपातनात् । तस्येत्यादि । एतञ्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । यद्येवम्, प्रवृद्धग्रहणमनर्थकम्, कर्मधारयेऽनिष्ठा इति वक्ष्यमाणेनैव सिद्धत्वात्, कृद्ग्रहणे गरिकारकपूर्वस्यापि ग्रहणम् इति प्रवृद्धशब्दस्यापि क्तान्तत्वाद् अत आह - कर्मधारयेऽनिष्ठेत्ययमपीति । एतत्रापि लक्षणप्रतिपदोक्तपरिभाषया क्तान्तेन प्रतिपदोक्तो यः कर्मधारयस्तस्य ग्रहणमित्यर्थः ॥