6-2-36 आचार्योपसर्जनः च अन्तेवासी प्रकृत्या पूर्वपदम् द्वन्द्वे
आचार्योपसर्जनान्तेवासिनां यो द्वन्द्वस्तत्र पूर्वपदं प्रकृतिस्वरं भवति। आ॒पि॒श॒लपा॑णिनीयाः। पा॒णि॒नीय॑रौढीयाः। रौ॒ढीय॑काशकृत्स्नाः। अपिशलस्यापत्यमापिशलिराचार्यः। ’अत इञ्’ ४.१.९५। <<तेन प्रोक्त म्>> ४.३.१०१ आपिशलम्। <<इञश्च>> ४.२.११२ इत्यण्। तदधीयते येऽन्तेवासिनस्तेऽप्यापिशलाः, <<प्रोक्ताल्लुक्>> ४.२.६४ इति तस्य तद्धितस्याध्येतरि विहितस्य लुक् क्रियते। आपिशलेर्वा छात्रा आपिशला इत्युभयथाप्याचार्योपसर्जनश्चान्तेवासी भवति। आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणार्थम्, सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायेत। इह मा भूत् — पा॒णि॒नी॒य॒दे॒व॒द॒त्तौ। आचार्योपसर्जन इति किम् ? छा॒न्द॒स॒व॒ैया॒क॒र॒णाः। अन्तेवासीति किम् ? आ॒पि॒श॒ल॒पा॒ण्िानी॒ये शास्त्रे॥
आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छस्वरेण मध्योदात्तावेतौ । आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणम् । सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायेत । तेनेह न । पाणिनीयदेवदत्तौ । आचार्येति किम् । छान्दसवैयाकरणाः । अन्तेवासीति किम् । आपिशलपाणिनीये शास्त्रे ॥
आचार्य उपसर्जनं यस्य स आचार्योपसर्जनः, अन्ते वसतीत्युन्तेवासी, शयवासवासिष्वकालाद् इत्यलुक्। गौणश्चायं निर्देशः। द्वन्दवस्य यान्यवयवपदानि तान्याचार्योपसर्जनवचनत्वादन्तेवासिवाचित्वाञ्च तथोच्यन्ते। तदवयवद्वन्द्वोऽप्यवयवधर्मेण तथोच्यते। पाणिनिशब्दादिञ् न भवतीति पूर्वमेवोक्तम् । रौढिशब्दादपि न भवति, न द्व्यचः प्राच्यभारतेषु इति निषेधात्। आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणमिति । न पूर्ववदविशेषणम् । प्रथमा तु सप्तम्यर्थे द्रष्टव्या । किमर्थं पुनर्द्वन्द्वविशेषणं विज्ञायते इत्याह - सकलो द्वन्द्व इति। इह मा भूदिति। पूर्वपदविशेषणेत्वत्रापि स्यात् ॥