6-2-35 सङ्ख्या प्रकृत्या पूर्वपदम् द्वन्द्वे
द्वन्द्वसमासे संख्यावाचि पूर्वपदं प्रकृतिस्वरं भवति। एका॑दश (तै० सं० ४.७.११.१)। द्वाद॑श। त्र॒योद॑श। <<इण्भीकापाशल्यतिमर्चिभ्यः कन्>> (प०उ० ३.४३) इति नित्त्वादाद्युदात्त एकशब्दः। त्रेस्त्रयस् आदेशोऽन्तोदात्तो निपात्यते॥
संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । त्रेस्त्रयसादेश आद्युदात्तो निपात्यते ॥
एकादशोति । सङ्ख्याया अल्पीयस्याः इत्येकशब्दस्य पूर्वनिपातः, प्रागेकादशभ्यो च्छन्दसि इति निपातनाद्दीर्घः । द्वादशेति। द्व्यष्टनः सङ्ख्यायाम् इत्यात्वम् ॥