6-2-34 राजन्यबहुवचनद्वन्द्वे अन्धकवृष्णिषु प्रकृत्या पूर्वपदम्
राजन्यवाचिनां बहुवचनान्तानां यो द्वन्द्वोऽन्धकवृष्णिषु वर्तते, तत्र पूर्वपदं प्रकृतिस्वरं भवति। श्वा॒फ॒ल्कच॑ैत्रकाः। च॒ैत्र॒करो॑धकाः। शिनि॑वासुदेवाः। श्वाफल्कशब्दश्चैत्रकशब्दश्च <<ऋष्यन्धकवृष्णिकुरुभ्यश्च>> ४.१.११४ इत्यणन्तावन्तोदात्तौ। शिनिशब्द आद्युदात्तः, स तदपत्येष्वभेदेन वर्तते। राजन्य इति किम् ? द्व॒ैप्य॒ह॒ैमा॒य॒नाः। द्वीपे भवा इति <<द्वीपादनुसमुद्रं यञ्>> ४.३.१०। हैमेरपत्यं युवा हैमायनः। अन्धकवृष्णय एते न तु राजन्याः। राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम्। एते च नाभिषिक्तवंश्याः। बहुवचनग्रहणं किम् ? सं॒क॒र्ष॒ण॒वा॒सु॒दे॒वौ। द्वन्द्व इति किम् ? वृष्णीनां कुमारा वृ॒ष्िणकु॒मा॒राः। अन्धकवृष्णिष्विति किम् ? कु॒रु॒प॒ञ्चा॒लाः (तै० ब्रा० १.८.४.१)॥
राजन्यवाचिनां बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासुदेवाः । शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते । राजन्येति किम् । द्वैप्यभैमायनाः । द्वीपे भवा द्वैप्याः । भैमेरपत्यं युवा भैमायनः । अन्धकवृष्मय एते न तु राजन्याः । राजन्यग्रहमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । नैते तथा । बहुवचनं किम् । संकर्षणवासुदेवौ । द्वन्द्वे किम् । वृष्णीनां कुमाराः वृष्णिकुमाराः । अन्धकवृष्णिषु किम् । कुरुपञ्चालाः ॥
श्वाफल्कचैत्रकरोधका इति । प्रमादपाठोऽयम् । अत्र त्रिपदे हि द्वन्द्वे यत्यक्वमपेक्षेय पूर्वपदं तस्यैव भवति, ततश्च चैत्रकशब्दस्य स्वरवचनमनुपपन्नं, तस्मात् श्वाफल्कचैत्रकाश्चैत्रकरीधको इति पाठः । एकस्तु चैत्रकशब्दो लेखकैः पुनरुक्तिशङ्कया त्यक्तः । शिनिशब्द आद्यौदात इति । शिङे निन् ह्रस्वश्च बहुलवचनात् । तदपत्येष्विति । यद्यपि शिनिशब्द इति प्रकृतम्, तथापि शब्दस्यापत्यास्यासम्भवाच्छिनेः क्षत्क्षियस्यैव यान्यपत्यानि तेष्वित्यर्थः। अभेदेन - अभेदोपचारेण । ननु च राज्ञोऽपत्ये जातिग्रहणम् इति वचनाद् राजन्यशब्दः क्षत्रियजतिवचनः, ततश्च द्वैप्यभैमायना एइत्युक्तं प्रत्युदाहरण् नोपपद्यते, तेषामपि क्षत्रियत्वाद् अत आह - राजन्यग्रहणमित्यादि । अन्धकवृष्णीनां क्षत्रियत्वाव्यभिचाराद् राजन्यग्रहणमुक्तविशेषपरिग्रहार्थमिति भावः ॥