6-2-33 परिप्रत्युपापाः वर्ज्यमानाहोरात्रावयवेषु प्रकृत्या पूर्वपदम्
परि प्रति उप अप इत्येते पूर्वपदभूता वर्ज्यमानवाचिनि अहरवयववाचिनि रात्र्यवयववाचिनि चोत्तरपदे प्रकृतिस्वरा भवन्ति। परि॑त्रिगर्तं वृष्टो देवः। परि॑सौवीरम्। परि॑सार्वसेनि। प्रति — प्रति॑पूर्वाह्णम्। प्रत्य॑पराह्णम् प्रति॑पूर्वरात्रम्। प्रत्य॑पररात्रम्। उप — उप॑पूर्वाह्णम्। उपा॑पराह्णम् । उप॑पूर्वरात्रम्। उपा॑पररात्रम्। अप — अप॑त्रिगर्तं वृष्टो देवः। अप॑सौवीरम्। अप॑सार्वसेनि। निपाता आद्युदात्ता <<उपसर्गाश्चाभिवर्जम्>> (फिट्० सू० ८०) इत्याद्युदात्तानि पूर्वपदानि। तत्पुरुषे बहुव्रीहौ च सिद्धत्वादव्ययीभावार्थोऽयमारम्भः। तत्रापपरी वर्जने १.४.८८ वर्तेते इति तयोरेव वर्ज्यमानमुत्तरपदम् नेतरयोः। अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्तीति न पृथगुदाह्रियन्ते। वर्ज्यमानाहोरात्रावयवेष्विति किम्? प्॒रत्य॒ग्नि शलभाः पतन्ति। प॒रि॒व॒नमित्यत्र <<वनं समासे>> ६.२.१७८ इत्येतद् भवति॥
एते प्रकृत्या वर्ज्यमानवाचिनि अहोरात्रावयववाचिनि चोत्तरपदे । परित्रिगर्तं वृष्टो देवः । प्रतिपूर्वाह्णम् । उपपूर्वाह्णम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आद्युदात्ताः । बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् । अपपर्योरेव वर्ज्यमानमुत्तरपदम् । तयोरेव वर्ज्यमानार्थत्वात् । अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति । वर्ज्येति किम् । अग्निं प्रति । प्रत्यग्नि ॥
परित्रिगर्तमिति । त्रिगर्तन्वर्जयित्वेत्यर्थः। अपपरी वर्जने इति कर्मप्रवचनीयसंज्ञा, पञ्चम्यगाङ्परिभिः इति पञ्चमी । अपपरिबहिरञ्चवः पञ्चम्या इत्यव्ययीभावः। सौवीरादयोऽपि जनपदविशेषाः। प्रतिपूर्वाह्णमिति । लक्षणेनाभिप्रती आभिमुख्ये इत्यव्ययीभावः। उपपूर्वाह्णमिति । अव्ययं विभक्ति इत्यादिना सामीप्ये। किं पुनः एकारणमपपरर्योरेव वर्ज्यमानमुदाहृतम्, नेतरयोः तत्राह - तत्रेति । अथाहोरात्रावयवा अपि इतरयोरपपर्थोः कस्मान्नोदाह्रियन्ते अत आह - अहोरात्रावयवा अपीति । परिवनमित्यत्रेति । परिप्रत्युपापा इत्यस्यावकाशः - परित्रिगर्तमिति, वनं समासे इत्यस्यावकाशः - प्रवणमिति परिवनमित्यत्र वनं समासे इत्येतद्भवति विप्रतिषेधेन । अपवादत्वं चात्र हेतुः, न विप्रतिषेधः । समासस्य इत्येव सिद्धे वनस्य पुनर्वचने एतत्प्रयोजनम् - येऽन्ये तदपवादास्तद्वाधनार्थम् । सर्वयैवाव्ययस्वरं बहुव्रीहिस्वरं च बाधते, एवमिदमपि बाधिष्यते॥