सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्

6-2-32 सप्तमी सिद्धशुष्कपक्वबन्धेषु अकालात् प्रकृत्या पूर्वपदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सप्तम्यन्तं पूर्वपदं सिद्ध शुष्क पक्व बन्ध इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति, सा चेत् सप्तमी कालाद् न भवति। सां॒का॒श्यसि॑द्घः। का॒म्पि॒ल्यसि॑द्घः। सांकाश्यकाम्पिल्यशब्दौ ण्यप्रत्ययान्तावन्तोदात्तौ। फिषि तु <<सांकाश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्>> (फिट् सू० ६५) अन्तः पूर्वं वेति पठ्यते। तत्र पक्षे मध्योदात्तावपि भवतः। शुष्क — ऊ॒कशु॑ष्कः। नि॒धन॑शुष्कः। ऊकशब्दो बहुलवचनादवतेः कक्प्रत्ययान्तोऽन्तोदात्तः। निधनशब्दो निधाञः क्युप्रत्यये मध्योदात्तः। पक्व — कु॒म्भी॑पक्वः। क॒ल॒सीप॑क्वः। भ्राष्ट्॑रपक्वः। कुम्भीकलसीशब्दौ ङीषन्तावन्तोदात्तौ। भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्त आद्युदात्तः। बन्ध — च॒क्रब॑न्धः। चार॑कबन्धः। चक्रशब्दोऽन्तोदात्तः। चारकशब्दो ण्वुलन्त आद्युदात्तः। अकालादिति किम् ? पू॒र्वा॒ह्ण॒सि॒द्धः। अ॒प॒रा॒ह्ण॒सि॒द्धः। सप्तमीस्वरः कृत्स्वरेण बाधितः पुनरयं विधीयते॥

Siddhanta Kaumudi

Up

अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु । साङ्काश्यसिद्धः । साङ्काश्येति ण्यान्तः । आतपशुष्कः । भ्राष्ट्रपक्वः । भ्राष्ट्रेति ष्ट्रन्नन्तः । चक्रबन्धः चक्रशब्दोऽन्तोदात्तः । अकालात्किम् । पूर्वाह्णसिद्धः । कृत्स्वरेण बाधितः सप्तमीस्वरः प्रतिप्रसूयते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ण्यप्रत्ययान्ताविति। वुञ्च्छणादिषु सङ्काशादिभ्यो ण्यः। अवतेः कक्प्रत्ययः, ज्वरत्वर इत्यादिनोठ, ऊकः । कुम्भकलशशब्दाभ्यां जातिलक्षणो ङीष्, भ्राष्ट्रशब्दो भ्रस्जेष्ट्रनि वृद्धौ च व्युत्पादितः । चक्रशब्दः कुञः को द्वे च। सप्तमीस्वर इत्यादि। तत्पुरुषे तुल्यार्थ इत्यादिना सप्तम्यन्स्य यः प्रकृतिभावः परत्वात्थाथादिस्वरेण बाधित इति। यत्र तु कृत्स्वरेण बाधित थैति पाठः, तत्र कृदान्तस्य यः स्वरः थाथादिलक्षणस्तेनेत्यर्थः ॥