6-2-31 दिष्टिवितस्त्योः च प्रकृत्या पूर्वपदम् द्विगौ अन्यतरस्याम्
दिष्टि वितस्ति इत्येतयोरुत्तरपदयोर्द्विगौ समासे पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति। पञ्च॑दिष्टिः, प॒ञ्च॒दि॒ष्टिः। पञ्च॑वितस्तिः, प॒ञ्च॒वि॒त॒स्तिः। दिष्टिवितस्ती प्रमाणे, तेनात्र मात्रचो लुक्॥
एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ । पञ्चदिष्टिः । पञ्चवितस्तिः ॥