बह्वन्यतरस्याम्

6-2-30 बहु अन्यतरस्याम् प्रकृत्या पूर्वपदम् इगन्तकालकपालभगालशरावेषु द्विगौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बहुशब्दः पूर्वपदमिगन्तादिषूत्तरपदेषु द्विगौ समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। पूर्वेण नित्ये प्राप्ते विकल्पः। ब॒ह्व॑रत्निः,ब॒ह्व॒र॒त्निः। ब॒हुमा॑स्यः, ब॒हु॒मा॒स्यः। ब॒हुक॑पालः,ब॒हु॒क॒पा॒लः। ब॒हुभ॑गालः, ब॒हु॒भ॒गा॒लः। ब॒हुश॑रावः, ब॒हु॒श॒रा॒वः। बहुशब्दोऽन्तोदात्तः, तस्य प्रकृतिस्वरे कृते यत्र यणादेशस्तत्र <<उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य>> ८.२.४ इत्येष स्वरो भवति॥

Siddhanta Kaumudi

Up

बहुशब्दस्तथा वा । बह्वरत्निः । बहुमास्यः । बहुकपालः । बहुशब्दोऽन्तोदात्तः । तस्य यणि सति उदात्तस्वरितयोः <{SK3657}> इति भवति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

बहुशब्दोऽन्तोदात इति। कुर्भ्रुश्चेति वर्तमाने लन्धिबंह्यएर्न लोपश्चेति कुप्रत्यये व्युत्पादितत्वात् ॥