6-2-29 इगन्तकालकपालभगालशरावेषु द्विगौ प्रकृत्या पूर्वपदम्
इगन्त उत्तरपदे कालवाचिनि कपाल भगाल शराव इत्येतेषु च द्विगौ समासे पूर्वपदं प्रकृतिस्वरं भवति। इगन्त — पञ्चा॑रत्निः। दशा॑रत्निः। पञ्चारत्नयः प्रमाणमस्य, दशारत्नयः प्रमाणमस्येति तद्धितार्थे द्विगुः,<<प्रमाणे लो द्विगोर्नित्यम्>> (५.२.३७ वा०) इति मात्रचो लोपः। इगन्त। काल — पञ्च॑मास्यः। दश॑मास्यः। पञ्च मासान् भृतो भूतो भावी वा ५.१.८० इति तद्धितार्थे <<द्विगोर्यप्>> ५.१.८२। पञ्च॑वर्षः। दश॑वर्षः। <<वर्षाल्लुक् च>> ५.१.८८ इति ठञो लुक्। काल। कपाल — पञ्च॑कपालः। दश॑कपालः। कपाल। भगाल — पञ्च॑भगालः। दश॑भगालः। भगाल। शराव — पञ्च॑शरावः। दश॑शरावः। <<संस्कृतं भक्षाः>> ४.२.१६ इति तद्धितार्थ एते समासा <<द्विगोर्लुगनपत्ये>> ४.१.८८ इति कृताण्प्रत्ययलोपा द्रष्टव्याः। इगन्तादिष्विति किम् ? पञ्चभिरश्वैः क्रीतः प॒ञ्चा॒श्वः। द॒शा॒श्वः। द्विगाविति किम् ? प॒र॒मा॒र॒त्निः। प॒र॒म॒श॒रा॒वम्। पञ्चा॑रत्न्यो दशा॑रत्नय इति च यण्गुणयोर्बहिरङ्गलक्षणयोरसिद्धत्वात् स्थानिवद्भावाद् वा द्विगुस्वर इगन्तलक्षणः प्रवर्तते॥
एषु परेषु पूर्वं प्रकृत्या । पञ्चारत्नयः प्रमाणमस्य पञ्चारत्निः । दश मासान् भूतो दशमास्यः । पञ्चमासान् भूतः पञ्चमास्यः ॥<!तमधीष्टो- !> (वार्तिकम्) ॥ इत्यधिकारे ।<!द्विगोर्यप् !> (वार्तिकम्) ॥ पञ्चकपालः । पञ्चकपालः । पञ्चभगालः । पञ्चशरावः । (फिट्)न्रः संख्यायाः इति पञ्चञ्छब्द आद्युदात्तः । इगन्तादिषु किम् । पञ्चाश्वः । द्विगौ किम् । परमाऽरत्निः ॥
कृताणप्रत्ययलोपा इति। कुतोऽण्प्रत्ययलोपो यषां ते तथोक्ताः । द्विगाविति किं परमशराव इति । षष्ठीसमासोऽयम् । बहुव्रीरौ तु पूर्वपदप्रकुतिस्वरेण भाव्यमेव । इगन्तप्रकुतिस्वरत्वे यण्गुणयो रुपसंख्यानम् - पञ्चारत्न्यो दशारत्न्यः,यण्गुणयोः कृतयोरिगन्ते द्विगावित्येष स्वरो न प्राप्नोति इत्यत आह यण्गुणयोरित्यादि। प्राक्सुबुत्पते। स्वरो भवन्नन्तरङ्गः, यण्गुणौ तु सुबपेक्षत्वाद्बहिरङ्गौ । स्थानिवद्भावाद्वेति । न चात्र स्वरविधौ न स्थानिवत्वम्, अलोपाजादेशत्वात् । पञ्चारत्न्य इति । छान्दसोऽयं प्रयोगः। तत्र जसि चेति गुणे न भवति जसादिषु च्छन्दसि वा वचनम् इति वचनात्॥