पूगेष्वन्यतरस्याम्

6-2-28 पूगेषु अन्यतरस्याम् प्रकृत्या पूर्वपदम् कर्मधारये कुमारः आदिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूगा गणाः तद्वाचिन्युत्तरपदे कर्मधारये समासे कुमारस्यान्यतरस्यामादिरुदात्तो भवति। कुमा॑रचातकाः, कु॒मा॒रचा॑तकाः, कु॒मा॒र॒चा॒त॒काः। कुमा॑रलोहध्वजाः, कु॒मा॒रलो॑हध्वजाः, कु॒मा॒र॒लो॒ह॒ध्व॒जाः। कुमा॑रबलाहकाः, कु॒मा॒रब॑लाहकाः,कु॒मा॒र॒ब॒ला॒ह॒काः। कुमा॑रजीमूताः, कु॒मा॒रजी॑मूताः, कु॒मा॒र॒जी॒मू॒ताः। चातकादयः पूगशब्दाः, तेभ्यः <<पूगाञ्ञ्योऽग्रामणीपूर्वात्>> ५.३.११२ इति ञ्यः प्रत्ययः, तस्य <<तद्राजस्य बहुषु०>> २.४.६२ इति लुक्। अत्र यदाद्युदात्तत्वं न भवति, तदा <<कुमारश्च>> ६.२.२६ इति पूर्वपदप्रकृतिस्वरत्वमेके कुर्वन्ति। ये तु तत्र प्रतिपदोक्त स्य ग्रहणमिच्छन्ति तेषां समासान्तोदात्तत्वमेव भवति॥

Siddhanta Kaumudi

Up

पूगा गणास्तेषूक्तं वा । कुमारचातकाः । कुमारजीमूताः । आद्युदात्तत्वाभावे कुमारश्च <{SK3760}> इत्येव भवति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up