6-2-27 आदिः प्रत्येनसि प्रकृत्या पूर्वपदम् कर्मधारये कुमारः
कर्मधारय इति वर्तते। प्रतिगत एनसा, प्रतिगतमेनो वा यस्य स प्रत्येनाः। तस्मिन्नुत्तरपदे कर्मधारये कुमारस्यादिरुदात्तो भवति। कुमा॑रप्रत्येनाः। उदात्त इत्येतदत्र सामर्थ्याद् वेदितव्यम्। पूर्वपदप्रकृतिस्वर एव ह्ययमादेरुपदिश्यते॥
कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये । प्रतिगतमेनोऽस्य प्रत्येनाः । कुमारप्रत्येनाः ॥
प्रतिगत एनसेति। अवादयः कुष्टाद्यर्थे तृतीयया इति तत्पुरुषः । द्वितीये तु विग्रहे बहुव्रीहिः । कथं पुननन्तरेणोदातग्रहमुदातस्वरो लभ्यते इत्याह - उदात इत्येतदिति । सामर्थ्यमेव दर्शयति । पूर्वपदेति । प्रकृत्येति हि वर्तते, तत्रैवमभिसम्बन्धः - पूर्वत्र कुमारशब्दे प्रकृतिभावेन यः स्वरः सथापितः सोऽत्रादेर्भवतीति॥