6-2-26 कुमारः च प्रकृत्या पूर्वपदम् कर्मधारये
कुमारशब्दः पूर्वपदं कर्मधारये समासे प्रकृतिस्वरं भवति। कु॒मा॒रश्र॑मणा। कु॒मा॒र॒कु॑लटा। कु॒मा॒रता॑पसी। कुमारशब्दोऽन्तोदात्तः। अत्र केचित् <<लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्>> इति परिभाषया <<कुमारः श्रमणादिभिः>> २.१.७० इत्यत्रैव समासे स्वरमेतमिच्छन्ति। केचित् पुनरविशेषेण सर्वत्रैव कर्मधारये॥
कर्मधारये । कुमारश्रमणा । कुमारशब्दोऽन्तोदात्तः ॥
कुमारश्रमणेति। लिङ्गविशिष्टपरिभाषया कुमारीशब्दस्य समासे पुंवद्भावः। कुमार क्रीडायाम् इत्यस्मात्पचाद्यच्, कुमारः । केचित्पुनरित्यादि चकारे ह्यत्र, क्रियते, अस्यैव, विधः समुञ्चयार्थः॥