श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये

6-2-25 श्रज्यावमकन्पापवत्सु भावे कर्मधारये प्रकृत्या पूर्वपदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

श्र ज्य अवम कन् इत्येतेषु पापशब्दवति चोत्तरपदे कर्मधारये समासे भाववाचि पूर्वपदं प्रकृतिस्वरं भवति। गम॑नश्रेष्ठम्। गम॑नश्रेयः। ज्य — वच॑नज्येष्ठम्। वच॑नज्यायः। अवम — गम॑नावमम्। वच॑नावमम्। कन् — गम॑नकनिष्ठम्। गम॑नकनीयः। पापवत् — गम॑नपापिष्ठम्। गम॑नपापीयः। ल्युडन्तान्येतानि पूर्वपदानि लित्स्वरेणाद्युदात्तानि। श्रज्यकनामादेशानां ग्रहणमिति सामर्थ्यात् तद्वदुत्तरपदं गृह्यते। श्रादिष्विति किम् ? ग॒म॒न॒शो॒भ॒नम्। भाव इति किम् ? गम्यतेऽनेनेति गमनम्, तत् श्रेयो ग॒म॒न॒श्रे॒यः। कर्मधारय इति किम् ? गमनस्य श्रेयो ग॒म॒न॒श्रे॒यः॥

Siddhanta Kaumudi

Up

श्र ज्य कन् इत्यादेशवति अवमशब्दे पापशब्दवति चोत्तरपदे भाववाचि पूर्वपदे प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्ठम् । श्रेत्यादि किम् । गमनशोभनम् । भावे किम् । गम्यतेऽनेनेति गमनम् । गमनं श्रेयो गमनश्रेयः । केति किम् । षष्ठीसमासे मा भूत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up