विस्पष्टादीनि गुणवचनेषु

6-2-24 विस्पष्टादीनि गुणवचनेषु प्रकृत्या पूर्वपदम् तत्पुरुषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

विस्पष्टादीनि पूर्वपदानि गुणवचनेषूत्तरपदेषु प्रकृतिस्वराणि भवन्ति। विस्प॑ष्टकटुकम्। विचि॑त्रकटुकम्। व्य॑क्तकटुकम्। विस्प॑ष्टलवणम्। विचि॑त्रलवणम्। व्य॑क्तलवणम्। विस्पष्टं कटुकमिति विगृह्य सुप्सुपेति समासः। विस्पष्टादयो ह्यत्र प्रवृत्तिनिमित्तस्य विशेषणम्। कटुकादिभिश्च शब्दैर्गुणवद् द्रव्यमभिधीयत इत्यसामानाधिकरण्यमतो नास्ति कर्मधारयः। विस्पष्टशब्दो <<गतिरनन्तरः>> ६.२.४९ इत्याद्युदात्तः। विचित्रशब्दोऽप्यव्ययस्वरेण। विचित्तशब्दमन्ये पठन्ति। सोऽपि बहुव्रीहिस्वरेणाद्युदात्त एव। व्यक्तशब्द <<उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य>> ८.२.४ इत्यादिस्वरितः। ये चात्रापरे पठ्यन्ते तत्र संपन्नशब्दस्थाथादिस्वरेणान्तोदात्तः, पटुपण्डितशब्दौ प्रत्ययस्वरेण। कुशलशब्दः कृत्स्वरेणान्तोदात्तः। चपलशब्दश्चित्स्वरेणान्तोदात्तः। <<चुपेरच्चोपधायाः>> (प० उ० १.१११) इत्यत्र हि चिदिति वर्तते। निपुणशब्दस्थाथादिस्वरेणान्तोदात्तः। पुणेरिगुपधलक्षणःकप्रत्ययोऽयम्। विस्पष्टादीनीति किम्? प॒र॒म॒ल॒व॒णम्। उ॒त्त॒म॒ल॒व॒णम्। गुणवचनेष्विति किम्? वि॒स्प॒ष्ट॒ब्रा॒ह्म्ाणः॥ विस्प॑ष्ट। विचि॑त्र। व्य॑क्त । सं॒प॒न्न। प॒टु। प॒ण्डि॒त। कु॒श॒ल। च॒प॒ल। नि॒पु॒ण। विस्पष्टादिः॥

Siddhanta Kaumudi

Up

विस्पष्टकटुकम् । विस्पष्टशब्दो गतिरनन्तरः <{SK3783}> इत्याद्युदात्तः । विस्पष्टेति किम् । परमलवणम् । गुणेति किम् । विस्पष्टब्राह्मणः । विस्पष्ट । विचित्र व्यक्त । संपन्न । पण्डित । कुशल । चपल । निपुण ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

विस्पष्ट इति । स्पश बाधनस्पर्शनयोः इत्यस्य निष्टायाम् वा दान्त इत्यादिना स्पष्ठशब्दो निपातितः विशब्देन गतिसमासः। चित्र चित्रीकरणे चुरादिः, तस्मादेरचे, विशेषेण चित्रं विचित्रम्, प्रादिसमासः । चिती संज्ञाने विगतं चितमस्य विचितः, आञ्जू व्यक्त्यादिषु तस्य विपूर्वस्य निष्टाया गतिस्वरः, तत्रेकारस्य यो यण् स उदातयण् भवति । सम्पन्नशब्दस्याथादिस्वरेणेति । गतिस्वरस्तु न भवति, किं कारणम्, कर्मणि इति तत्रानुवर्तते, अयं तु कर्तरि क्तः। पटुअपण्डितशब्दौ प्रत्ययस्वरेणेति। अन्तोदात इत्यपेक्षेते। यदेकवचनान्तं प्रकृतम्, तस्य वचनविपरिणामं कृत्वाऽन्तोदाताविति सम्बन्धः कर्तव्यः। पाटयतेः फरिपाटिनमिजनीनां गुक्पटिनाकिधश्च इत्युप्रत्ययः, पटिश्चादेशः, इकार उच्चारणार्थः पटुअः । पडि गतौ निष्ठा, पण्डितः। कुशान् लातीति कुशलः, ला आदाने चपलशब्दश्चित्स्वरेणेति । अन्तोदात् इत्यपेक्षेते । चचिदिति वर्तत इति । वृषादिभ्यशिचत् इत्यतः। निपुणाशब्द इत्यादि। पूर्ववत्सम्बन्धः। पुण कर्मणि शुभे॥