सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये

6-2-23 सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये प्रकृत्या पूर्वपदम् तत्पुरुषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सविध सनीड समर्याद सवेश सदेश इत्येतेषूत्तरपदेषु सामीप्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। म॒द्रस॑विधम्। गान्धा॑रिसविधम्। का॒श्मीर॑सविधम्। म॒द्रस॑नीडम्। गान्धा॑रिसनीडम्। का॒श्मीर॑सनीडम्। मद्रस॑मर्यादम्। गान्धा॑रिसमर्यादम्। का॒श्मीर॑समर्यादम्। म॒द्रस॑वेशम्। गान्धा॑रिसवेशम्। का॒श्मीर॑सवेशम्। म॒द्रस॑देशम्। गान्धा॑रिसदेशम्। का॒श्मीर॑सदेशम्। पूर्वपदान्युक्तस्वराणि। सविधादीनां सह विधयेत्येवमादिका व्युत्पत्तिरेव केवलम्। समीपवाचिनस्त्वेते समुदायाः। मद्राणां सविधं समीपमित्यर्थः। सामीप्य इति किम् ? सह मर्यादया वर्तते समर्यादं क्षेत्रम्। देवदत्तस्य समर्यादं दे॒व॒द॒त्त॒स॒म॒र्या॒दम्। सविधादिष्विति किम् ? दे॒व॒द॒त्त॒स॒म॒या॥

Siddhanta Kaumudi

Up

एषु पूर्वं प्रकृत्या । मद्रसविधम् । गान्धारसनीडम् । काश्मीरसमर्यादम् । मद्रसवेशम् । मद्रसदेशम् । सामीप्ये किम् । सह मर्यादया समर्यादं क्षेत्रम् । चैत्रसमर्यादम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

उदाहरणेषु षष्टीसमासः, मद्रादीनां पूर्वमेव स्वर उक्तः॥