पूर्वे भूतपूर्वे

6-2-22 पूर्वे भूतपूर्वे प्रकृत्या पूर्वपदम् तत्पुरुषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वशब्द उत्तरपदे भूतपूर्ववाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। आढ्यो भूतपूर्व आ॒ढ्यपू॑र्वः। पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते। तत्र <<विशेषणं विशेष्येण०>> २.१.५७ इति समासः। मयूरव्यंसकादिर्वा द्रष्टव्यः। द॒र्श॒नीय॑पूर्वः। सु॒कु॒मा॒रपू॑र्वः। भूतपूर्व इति किम्? प॒र॒म॒पू॒र्वः। उ॒त्त॒म॒पू॒र्वः। अत्र परमश्चासौ पूर्वश्चेति समासः, न तु परमो भूतपूर्व इति। तथा च सत्युदाहरणमेव भवति ॥

Siddhanta Kaumudi

Up

आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । भूतपूर्वे किम् । परमपूर्वः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

आढ्यो भूतपूर्व इति। यः पूर्वमाढ।ल् आसीत्स एवमुच्यते। अत्रेत्यादि। परमश्चासौ पूर्वश्चेति। सोऽयं वाक्यार्थः पूज्यमानतालक्षणः, तस्मिन्निह प्रत्युदहरणे समास इत्यर्थः। न त्विति । परमो भूतपूर्व इति। योऽयं वाक्यार्थः पूर्व परम आसीदित्यवंरूपः, न तस्मिन् तत्र समास इति यावत्, किं कारणम् इत्याह-तथा एचेति । ह्यर्थे ॥