6-2-21 आशङ्काबाधनेदीयस्सु संभावने प्रकृत्या पूर्वपदम् तत्पुरुषे
प्रकृत्या पूर्वपदं तत्पुरुष इति वर्तते। आशङ्क आबाध नेदीयस् इत्येतेषूत्तरपदेषु संभावनवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। अस्तित्वाध्यवसायः संभावनम्। गम॑नाशङ्कं वर्तते। गमनमाशङ्क्यत इति संभाव्यते। वच॑नाशङ्कम्। व्या॒हर॑णाशङ्कम्। आबाध — गम॑नाबाधम्। वच॑नाबाधम्। व्या॒हर॑णाबाधम्। गमनं बाध्यत इति संभाव्यते। नेदीयस् — गम॑ननेदीयः। व्या॒हर॑णनेदीयः। गमनमतिनिकटतरमिति संभाव्यते। संभावन इति किम् ? प॒र॒म॒ने॒दी॒यः। पूर्वपदानि ल्युडन्तान्युक्त स्वराणि॥
अस्तित्वाध्यवसायः संभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीयः । गमनमाशङ्क्यते आबाध्यते निकटतरमिति वा संभाव्यते । संभावने किम् । परमनेदीयः ॥
शकि शङ्कायाम् बाधृ विलोडने, आङ्पूर्वाभ्यां कर्मणि घञ् । अतिशयेनान्तिको नेदीयः, अन्तिकबाढयोर्नेदसाधौ । अस्तित्वाध्यवसायः - अस्तित्वनिश्चयः। गमनाशङ्कादयो विशेषणसमासाः, मयूरव्यंसकादयो वा ॥