6-2-20 वा भुवनम् प्रकृत्या पूर्वपदम् तत्पुरुषे पत्यौ ऐश्वर्ये
पतिशब्द उत्तरपद ऐश्वर्यवाचिनि तत्पुरुषे समासे भुवनशब्दः पूर्वपदं वा प्रकृतिस्वरं भवति। भुव॑नपतिः, भु॒व॒न॒प॒तिः। पूर्वपदप्रकृतिस्वरपक्ष आदिरुदात्तः। <<रञ्जेःक्युन्>> (प०उ० २.८०) इति वर्तमाने <<भूसूधूभ्रस्जिभ्यश्छन्दसि>> (प० उ० २.८१) इति क्युन्प्रत्ययान्तो भुवनशब्द आद्युदात्तो व्युत्पादितः। कथं भुवनपतिरादित्य इति ? <<उणादयो बहुलम्>> ३.३.१ इति बहुलवचनाद् भाषायामपि प्रयुज्यते॥
उक्तविषये । भुवनपतिः भूसूधूभ्रस्जिभ्यः <{उ238}> इति क्युन्नन्तो भुवनशब्दः ॥
भुवनशब्दो भाषायां बहुलवचनात्साधुः ॥