न भूवाक्चिद्दिधिषु

6-2-19 न भूवाक्चिद्दिधिषु प्रकृत्या पूर्वपदम् तत्पुरुषे पत्यौ ऐश्वर्ये

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पतिशब्द उत्तरपद ऐश्वर्यवाचिनि तत्पुरुषे समासे भू वाक् चित् दिधिषू इत्येतानि पूर्वपदानि प्रकृतिस्वराणि न भवन्ति। पूर्वेण प्राप्तः स्वरः प्रतिषिध्यते। भू॒प॒तिः। वा॒क्प॒तिः। चि॒त्प॒तिः। दि॒धि॒षू॒प॒तिः। षष्ठीसमासा एते समासस्वरेणान्तोदात्ता भवन्ति॥

Siddhanta Kaumudi

Up

पतिशब्दे परे ऐश्वर्याचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिर्भूपतिः । वाक्यपतिः । चित्पतिः । दिधिषूपतिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

भूवादीनां समाहारद्वन्द्वे नपुंसकहस्वत्वम्, अत्र पूर्वपदप्रकृतिस्वरप्रतिषेधाद् वृत्तिकारेण पूर्वपदानां स्वरो व्याख्यातः । तत्रादितस्त्रयः क्किबन्ताः । अन्दूदृभ्भूजम्बूकफेलूकर्कन्धूदिधिषूः इति कूप्रत्ययान्तो दिधिषूशब्दो निपातितिः ॥