6-2-198 सक्थं च अक्रान्तात् उत्तरपदात् अन्तः विभाषा
सक्थमिति कृतसमासान्तः सक्थिशब्दोऽत्र गृह्यते, सोऽक्रान्तात् परो विभाषान्तोदात्तो भवति। गौ॒र॒स॒क्थः, गौ॒र॒स॑क्थः। श्ल॒क्ष्ण॒स॒क्थः, श्ल॒क्ष्णस॑क्थः। अक्रान्तादिति किम् ? च॒क्॒रस॒क्थः। षचश्चित्त्वाद् नित्यमन्तोदात्तत्वं भवति॥
गौरसक्थः । श्लक्ष्णसक्थः । आक्रान्तात्किम् । चक्रसक्थः । समासान्तस्य पचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति ॥
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् इति समासान्ते कृते यः सक्थशब्दः सोऽत्र गृह्यते । क्रशब्दोऽन्तो यस्य स क्रान्तः, ततोऽन्योऽक्रान्त इति । गौरसक्थ इति । गौरशब्दः प्रज्ञाद्यणन्तत्वादन्तोदातः । श्लिषेरञ्चोपपधायाः इति श्लक्ष्णशब्दोऽन्तोदातः । षचश्चित्वादिति । एतेन चित्स्वरस्यायमपवादः, प्राप्तविभाषेयमिति दर्शंयति ॥