6-2-197 द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ उत्तरपदात् अन्तः विभाषा
द्वि त्रि इत्येताभ्यामुत्तरेषु पाद् दत् मूर्धन् इत्येतेषूत्तरपदेषु यो बहुव्रीहिस्तत्र विभाषान्त उदात्तो भवति। द्वौ पादावस्य द्वि॒पात् (तै०सं० २.६.८.४), द्विपा॑त्। त्र्िापात्, त्रिपा॑त्। द्वि॒दन्, द्विद॑न्। त्रि॒दन्,त्रिद॑न्। द्वि॒मू॒र्धा, द्विमू॑र्धा। त्रि॒मू॒र्धा, त्रिमू॑र्धा। पादिति कृताकारलोपः पादशब्दो गृह्यते। ददिति कृतददादेशो दन्तशब्दः। मूर्धन्निति त्वकृतसमासान्तो नान्त एव मूर्धन्शब्दः। तस्यैतत् प्रयोजनमसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यात्। एतदेव ज्ञापकमनित्यः समासान्तः (परि० ८४) भवतीति। यदापि समासान्तः क्रियते, तदापि बहुव्रीहेः कार्यित्वात् तदेकदेशत्वात् च समासान्तस्यान्तोदात्तत्वं पक्षे भवत्येव। द्वि॒मू॒र्धः। त्रि॒मू॒र्धः। द्वित्रिभ्यामिति किम्? क॒ल्याण॑मूर्धा। पादादिष्विति किम्? द्विह॑स्तम्। बहुव्रीहाविति किम्? द्वयोर्मूर्धा द्वि॒मू॒र्धा॥
आभ्यां परेश्वेश्वन्तोदात्तो वा । द्विपाच्चतुष्पाच्चरथाय (द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य) । त्रिपादूर्ध्वः (त्रि॒पादू॒र्ध्वः) । द्विदन् । त्रिमूर्धानं सप्तरश्मिम् (त्रि॒मू॒र्धानं॑ स॒प्तरश्मिम्) । मूर्धन्नित्यकृतसमासान्त एव मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यां किम् । कल्याणमूर्धा । बहुव्रीहौ किम् । द्वयोर्मूर्धा द्विमूर्धा ॥