विभाषोत्पुच्छे

6-2-196 विभाषा उत्पुच्छे उत्तरपदात् अन्तः उपसर्गात् तत्पुरुषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उत्पुच्छशब्दे तत्पुरुषे विभाषान्त उदातो भवति। उत्क्रान्तः पुच्छाद् उ॒त्पु॒च्छः, उत्पु॑च्छः। यदा तु पुच्छमुदस्यति उत्पुच्छयति, उत्पुच्छयतेरच्, उत्पुच्छः, तदा थाथादिसूत्रेण ६.२.१४४ नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयमिति सेयमुभयत्रविभाषा भवति। तत्पुरुष इत्येव — उदस्तं पुच्छमस्य उत्पु॑च्छः॥

Siddhanta Kaumudi

Up

तत्पुरुषे । उत्क्रान्तः पुच्छादुत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयतेः एरच्-<{SK3231}> उत्पुच्छस्तदा थाथादिस्वरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् । सेयमुभयत्र विभाषा । तत्पुरुषे किम् । उदस्तं पुच्छं येन स उत्पच्छः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

सेयमुभयत्र विभाषेति । आद्यप्रवृतावव्ययपूर्वपदप्रकृतिस्वरेण बाधितत्वात् समासस्यान्तोदातत्वमप्राप्तम्, द्वितीयायां तु थाथादिस्वरेण नित्यं प्राप्तमिति कृत्वा ॥ एद्वित्रिभ्यां पाद्दन्मूर्द्धसु बहुव्रीहौ ॥ द्वित्रिभ्याम् इति दिग्योगलक्षणा पञ्चमी, पाद्दन्मूर्द्धसु इति सत्सप्तमी, बहुव्रीहिः कार्यीति, तदेतदाह - द्वित्रि इत्येताभ्यामिति । द्विपादिति । संख्या सुपूर्वस्य इत्यकारलोपः समासान्तः । दन्निति । वयसि दन्तस्य दतृ। मूर्द्धन्नित्यादि । न ह्यकृत्समासान्तस्य सम्भवः अत आह - एतदेवेति । यदि तर्ह्यकृतसमासान्तस्योपादनम्, एवं सति यदि समासान्तः क्रियते, तदा न प्रापनोति तस्य शब्दान्तरत्वादित्यत आह - यदपीति । इह हि बहुव्रीहिः कार्यित्वेनोपातः, न मूर्द्धशब्दः । तदेकदेशत्वाच्चेति । तस्य बहुव्रीहेरेकदेशोऽवयवः समासान्तस्तद्भावस्तत्वम्, तस्मादित्यर्थः । तदेकदेशित्वादिति पाठे स व व्रीहिरेकदेशी अवयवी यस्य स तदेकदेशी, तस्य भावस्तत्वम्, तस्मादिति स एवार्थः । तदेवं बहुव्रीहेः कार्यित्वात्त्देकदेशत्वाच्च समासान्तस्य यदापि समासान्तः क्रियते, तदाप्ययं विधिर्भवत्येव । अपर आह - यदाप्युतरपदस्य कार्यित्वं तदापि परत्वादन्तोदातत्वे कृते पश्चात्समासान्तः, तत्र टिलोपे सति उदातनिवृत्तिस्वरेणैव षप्रत्ययस्य सिद्धमुदातत्वमिति । कल्याणमूर्द्धेति । पूर्वपदप्रकृतिस्वर एवात्र भवति । कल्याणशब्दः लघावन्ते इति मध्योदातः ॥