6-2-195 सोः अवक्षेपणे उत्तरपदात् अन्तः उपसर्गात् तत्पुरुषे
सुशब्दात् परमुत्तरपदं तत्पुरुषे समासेऽन्तोदात्तं भवत्यवक्षेपणे गम्यमाने। अवक्षेपणं निन्दा। इह खल्विदानीं सुस्थण्डिले सुस्फिगाभ्यां सु॒प्॒रत्य॒व॒सि॒तः। सुशब्दोऽत्र पूजायामेव। वाक्यार्थस्तु अवक्षेपणमसूयया तथाभिधानात्। सोरिति किम्? कुब्रा॑ह्मणः। अवक्षेपण इति किम् ? शोभनेषु तृणेषु सुतृ॑णेषु॥
सुप्रत्यवसितः । सुरत्र पूजायामेव । वाक्यार्थस्त्वत्र निन्दा । असूयया तथाभिधानात् । सोः किम् । कुब्राह्मणः । अवक्षेपणे किम् । सुवृषणम् ॥
उदाहरणे तु स्वती पूजायाम् इति कर्मप्वचनीयस्य समासः । तेन सुप्रत्यवसिते थाथादिस्वरेण सिद्धिर्नाशङ्क्या । यदि सुशब्दोऽत्र पूजायामेव वर्तते, कथं तर्हि क्षेपो गम्यते इत्याह - वाक्यार्थस्त्विति । कथम् इत्याह - आसूयया तथाभिधानादिति । यः खल्वनर्थं उपस्थिते सुखायामास्ते तं प्रकृत्यैवमुक्ते क्षेपो गम्यते ॥