उपाद् द्व्यजजिनमगौरादयः

6-2-194 उपात् द्व्यजजिनम् अगौरादयः उत्तरपदात् अन्तः उपसर्गात् तत्पुरुषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपादुत्तरं द्व्यजजिनं चान्तोदात्तं भवति तत्पुरुषे समासे गौरादीन् वर्जयित्वा। उपगतो देवम् उ॒प॒दे॒वः। उ॒प॒सो॒मः। उ॒पे॒न्द्रः। उ॒प॒ह॒ोडः। अजिन — उ॒पा॒जि॒नम्। अगौरादय इति किम् ? उप॑गौरः। उप॑तैषः। तत्पुरुष इत्येव — उपगतः सोमोऽस्य उप॑सोमः॥ गौर। तैष। तैट। लट। लोट। जिह्वा। कृष्णा। कन्या। गुड। कल्प। पाद। गौरादिः॥

Siddhanta Kaumudi

Up

उपात्परं यत् द्व्यच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । अगौरादयः किम् । उपगौरः । उपतैषः । तत्पुरुषे किम् । उपगतः सोमोऽस्य स उपसोमः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गुरी उद्यमने, पचाद्यजन्तात्प्रज्ञाद्यण्, गौरम्। तिष्येण युक्तः कालस्तैषः । लेट् लोट् इति । कण्ड्वादिपठिताब्यां पचाद्यच्, लेटलोटौ । दिहेर्जिह्वा उणादिः । कृषेर्वर्णे इति नक्, टाप् - कृष्णा । कन्याशब्दः अध्न्यादयश्चेति निपातितः । गुघ घनत्वे इगुपधात्कः गुधः । कॢपिपदिभ्यां घञ् - कल्पः, पादः ॥