प्रतेरंश्वादयस्तत्पुरुषे

6-2-193 प्रतेः अंश्वादयः तत्पुरुषे उत्तरपदात् अन्तः उपसर्गात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रतेरंश्वादयस्तत्पुरुषे समासेऽन्तोदात्ता भवन्ति। प्रतिगतः अंशुः प्॒रत्यं॒शुः। प्॒रति॒ज॒नः। प्॒रति॒रा॒जा। राजशब्दः समासान्तस्यानित्यत्वाद् यदा टज् नास्ति, तदा प्रयोजयति। तस्मिन् हि सति चित्त्वादेवान्तोदात्तत्वं सिद्धम्। तत्पुरुष इति किम् ? प्रतिगता अंशवोऽस्य प्रत्यं॑शुः अयमुष्ट्रः॥ अंशु। जन। राजन्। उष्ट्र। खेटक। अजिर। आर्द्रा। श्रवण। कृत्तिका। अर्ध। पुर॥

Siddhanta Kaumudi

Up

प्रतेः परेंऽश्वादयोऽन्तोदात्ताः । प्रतिगतोंऽशुः प्रत्यंशुः प्रतिजनः । प्रतिराजा । समासान्तस्यानित्यत्वान्न टच् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अंशुशब्दः कुश्चेति वर्तमाने मृगय्वादयश्चेति निपातितः । राजतेः कनिन् राजन् । उष दाहे, ष्ट्रन् -उष्ट्रः । खिट्, ण्वुल् -खेटकः । अजिरशिशिर इति किरच् - अजिरम् । द्रातेराङ्पूर्वाद् आतश्चोपसर्गे इत्यङ्, अस्मादेव निपातनादाङे रगागमझः - आर्द्रा । शृणोतेर्ल्युट् - श्रवणम् । कृतिभिदिलतिभ्यः कित्, तिकन् प्रकृतः - कृतिका । ऋघेः पचाद्यच् - अर्धः । पुर अग्रगमने इगुपधात्कः पुरम् । एते अंश्वादयः ॥