नेरनिधाने

6-2-192 नेः अनिधाने उत्तरपदात् अन्तः उपसर्गात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नेः परमुत्तरपदमन्तोदात्तं भवत्यनिधाने। निधानमप्रकाशता। नि॒मू॒लम्। न्य॒क्षम्। नि॒तृ॒णम्। बहुव्रीहिरयं प्रादिसमासो वा। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम्। अनिधान इति किम् ? निवा॑ग् वृषलः। निद॑ण्डः। निहितवाक्, निहितदण्ड इत्यर्थः। निशब्दोऽत्र निधानार्थं ब्रवीति। प्रादयो हि वृत्तिविषये ससाधनां क्रियामाहुः॥

Siddhanta Kaumudi

Up

निधानमप्रकाशता ततोऽन्यदनिधानं प्रकाशनमित्यर्थः । निमूलम् । न्यक्षम् । अनिधाने किम् । निहितो दण्डो निदण्डः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

निधानमप्रकाशतेति । न निधानमनिधानम् । निर्गतं मूलमस्य निर्गतं वा मूलन्निमूलम् । निधानार्थं ब्रवीतीति । अप्रकाशतां ब्रवीतीत्यर्थः । कथं पुनर्निशब्दस्यायमर्थः इत्याह - प्रादयो हीति ॥