अतेरकृत्पदे

6-2-191 अतेः अकृत्पदे उत्तरपदात् अन्तः उपसर्गात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अतेःपरमकृदन्तं पदशब्दश्चान्तोदात्तो भवति। अ॒त्य॒ङ्कु॒शो नागः। अ॒ति॒क॒शोऽश्वः। पदशब्दःखल्वपि — अ॒ति॒प॒दा शक्वरी। अकृत्पद इति किम्? अति॑कारकः॥ अतेर्धातुलोप इति वक्त व्यम्॥ इह मा भूत् — शोभनो गार्ग्यः अति॑गार्ग्यः। इह च यथा स्यात् — अतिक्रान्तः कारकाद् अ॒ति॒का॒र॒क इति॥

Siddhanta Kaumudi

Up

अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो नागः । अतिपदगायत्री । अकृत्पदे किम् । अतिकारः ।<!अतेर्धातुलोप इति वाच्यम् !> (वार्तिकम्) ॥ इह मा भूत् । शोभनो गार्ग्योऽतिगार्ग्यः । इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अकृच्च पदच्च अकृत्पदे ॥