पुरुषश्चान्वादिष्टः

6-2-190 पुरुषः च अन्वादिष्टः उत्तरपदात् अन्तः उपसर्गात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पुरुषशब्दोऽन्वादिष्टवाची चानोरुत्तरोऽन्तोदात्तो भवति। अन्वादिष्टः पुरुषः अ॒नु॒पु॒रु॒षः। अन्वादिष्टोऽन्वाचितः कथितानुकथितो वा। अन्वादिष्ट इति किम् ? अनुगतः पुरुषः अनु॑पुरुषः॥

Siddhanta Kaumudi

Up

अनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्ट पुरुषोऽनुपुरुषः । अन्वादिष्टः किम् । अनुगतः पुरुषोऽनुपुरुषः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अन्वादिष्टः - अप्रधानशिष्टः, यथा भिक्षामठ गां चानयेति गोरानयनम् । कथितानुकथितो वेति । कस्मिंश्चित्प्राक्कथिते योऽन्यः पश्चात्कथ्यते स कथितानुकथितः । अनुगतः - पश्चाद्गतः ॥