अनोरप्रधानकनीयसी

6-2-189 अनोः अप्रधानकनीयसी उत्तरपदात् अन्तः उपसर्गात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनोरुत्तरमप्रधानवाचि कनीयश्चान्तोदात्तं भवति। अनुगतो ज्येष्ठम् अ॒नु॒ज्ये॒ष्ठः। अ॒नु॒म॒ध्य॒मः। पूर्वपदार्थप्रधानः प्रादिसमासोऽयम्। अनुगतः कनीयान् अ॒नु॒क॒नी॒यान्। उत्तरपदार्थप्रधानोऽयम्। प्रधानार्थं च कनीयोग्रहणम्। अप्रधानकनीयसी इति किम्? अनुगतो ज्येष्ठो अनु॑ज्येष्ठः॥

Siddhanta Kaumudi

Up

अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठमनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधानः । प्रधानार्थं च कनीयोग्रहणम् । अप्रेति किम् । अनुगतो ज्येष्ठोऽनुज्येष्ठः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

उदाहरणे उतरपदार्थस्याप्राधान्यं दर्शयति । पूर्वपदार्थप्रधानः प्रादिसमासोऽयमिति । प्रधानार्थे च कनीयोग्रहणमिति । अन्यत्रा प्रधानग्रहणेनैव सिद्धत्वात् । अनुगतो ज्यष्ठ इति । विग्रहविशेषेण प्रधानवाचित्वं ज्येष्टशब्दस्य दर्शयति ॥