पत्यावैश्वर्ये

6-2-18 पत्यौ ऐश्वर्ये प्रकृत्या पूर्वपदम् तत्पुरुषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पतिशब्द उत्तरपद ऐश्वर्यवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं भवति। गृ॒हप॑तिः। सेना॑पतिः। नर॑पतिः। धा॒न्य॑पतिः। <<गेहे कः>> ३.१.१४४ इति प्रत्ययस्वरेणान्तोदात्तो गृहशब्दः। सह इनेन वर्तत इति <<बहुव्रीहौ प्रकृत्या पूर्वपदम्>> ६.२.१ इति सेनाशब्द आद्युदात्तः। <<नृ नये>> एतस्माद् <<ॠ दोरप्>> ३.३.५७ इत्यप्प्रत्ययान्त आद्युदात्तो नरशब्दः। धान्यमन्तस्वरितम् (फिट् सू० ७६)। ऐश्वर्य इति किम्? ब्राह्मणो वृ॒ष॒ली॒प॒तिः। वृषल्या भर्तेत्यर्थः॥

Siddhanta Kaumudi

Up

दमूना गृहपतिर्दमे (दमू॑ना गृ॒हप॑ति॒र्दमे॑) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

धान्यमन्तः स्वरितमिति । आनन्तरपठितेन फिट्सूत्रेण॥ गवादीनां तु पूर्वमेव स्वरकथनम् ॥