6-2-188 अधेः उपरिस्थम् उत्तरपदात् अन्तः उपसर्गात्
अधेरुत्तरमुपरिस्थवाचि अन्तोदात्तं भवति। अ॒धि॒द॒न्तः। अ॒धि॒क॒र्णः। अ॒धि॒के॒शः। अध्यारूढो दन्त इति प्रादिसमासः। अध्यारूढो वा दन्त इति समानाधिकरण उत्तरपदलोपी समासः। दन्तस्योपरि योऽन्यो दन्तो जायते, स उच्यतेऽधिदन्त इति। उपरिस्थमिति किम्? अ॒धि॒कर॑णम्॥
अध्यारूढो दन्तोऽधिदन्तः । दन्तस्योपरि जातो दन्तः । उपरिस्थं किम् । अधिकरणम् ॥
उपरि तिष्ठतीत्युपरिस्थम्, सुपि स्थः इति कः । दन्तस्योपरीत्यादिनोपरिस्थत्वं दर्शयति । अधिकरणमिति । अत्र कृदुतरपदप्रकृतिस्वरेण ककाराकार उदातः ॥