6-2-187 स्फिगपूतवीणाञ्जोध्वकुक्षिसीरनामनाम च उत्तरपदात् अन्तः उपसर्गात् अपात् अनोः
स्फिग पूत वीणा अञ्जस् अध्वन् कुक्षि इत्येतान्युत्तरपदानि सीरनामानि च नामशब्दश्चापादुत्तराण्यन्तोदात्तानि भवन्ति। अ॒प॒स्फि॒गम्। अ॒प॒पू॒तम्। अ॒प॒वी॒णम्। अ॒पा॒ञ्जः। अ॒पा॒ध्वा। <<उपसर्गादध्वनः>> ५.४.८५ इति यदा समासान्तो नास्ति, तदानेनान्तोदात्तत्वं भवति। तस्मिन् हि सत्यच्प्रत्ययस्य चित्त्वादेव सिद्धम्। अनित्यश्च समासान्तः (परि० ८४) इत्येतदेव ज्ञापकम्। अ॒प॒कु॒क्षिः। अ॒प॒सी॒रः। अ॒प॒ह॒लम्। अ॒प॒ला॒ङ्ग॒लम्। अ॒प॒ना॒म। सर्वत्र प्रादिसमासो बहुव्रीहिरव्ययीभावो वा। स्फिगपूतकुक्षीणां ग्रहणमबहुव्रीह्यर्थम — ध्रुवार्थमस्वाङ्गार्थं च॥
अपादिमान्यन्तोदात्तानि । अपस्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । उपसर्गादध्वनः-<{SK953}> इत्यस्याभावे इदम् । एतदेव च ज्ञापकं समासान्तानित्यत्वे उपकुक्षिः । सीरनाम । अपसीरम् । अपहलम् । नाम अपनाम । स्फिगपूतकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च ॥
नामग्रहणं सीरशब्देनेव सम्बध्यते, न स्फिगादिभिःस्फिगपूतकुक्षीणां पृथग्ग्रहणात् । उपसर्गादध्वन इति यदा समासान्त इत्यादि । अत्र कारणमाह - तस्मिन् हि सतीति । ननु च एचौपसर्गादध्वनः इत्यत्र तु न विकल्पः श्रुतः, नापि प्रकृतः, तत्किमुच्यते - यदा समासान्तो नास्तीति अत आह - अनित्यस्चेति । यदि नित्यः समासान्तः स्यदध्वग्रहणमिह न कर्तव्यं स्याद्, अच्प्रत्ययस्य चित्वादेवान्तोदातत्वस्य सिद्धत्वात् कृतं तु, ज्ञापयति - समासान्तविधिरनित्य इति । एस्फिगपूतकुक्षीणामित्यादि । यदा ह्यएतानि स्वाङ्गवाचीनि ध्रुवाणि च भवन्ति, बहुव्रीहिश्च समासः, तदा उपसर्घात्स्वाङ्गम् इत्येव सिद्धम् ॥