6-2-186 अपात् च उत्तरपदात् अन्तः उपसर्गात् मुखम् अनोः
अपात् चोत्तरं मुखमन्तोदात्तं भवति। अ॒प॒मु॒खः। अ॒प॒मु॒खम्। अव्ययीभावेऽप्यत्र प्रयोजयति। तत्रापि हि <<परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु>> ६.२.३३ इत्युक्तम्। योगविभाग उत्तरार्थः॥
अपमुखम् । योगविभाग उत्तरार्थः ॥
अव्ययीभावोऽप्यत्र प्रयोजयतीति । कुतः इत्याह - तत्रापि हीति । यस्मातत्रापि परिप्रत्युपापा इति पूर्वपदप्रकृतिस्वरत्वमुक्तम्, तस्मात्सोऽपि प्रयोजयतीत्यर्थः । योगाविभाघ उतरार्थ इति । उतरत्र उपात् इत्यस्यैवानुवृत्तिर्यथा स्यात्, अभेर्मा भूत् ॥