6-2-184 निरुदकादीनि च उत्तरपदात् अन्तः उपसर्गात् अनोः
निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति। नि॒रु॒द॒कम्। नि॒रु॒ल॒पम्। नि॒रु॒प॒लम्। इत्यन्ये पठन्ति। नि॒र्म॒श॒कम्। नि॒र्म॒क्ष्िाकम्। एषां प्रादिसमासो बहुव्रीहिर्वा। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम्। नि॒ष्का॒ल॒कः। निष्क्रान्तः कालकादिति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः। नि॒ष्का॒लि॒क इत्यन्ये पठन्ति। नि॒ष्पे॒षः। दु॒स्त॒री॒पः। <<अवितृस्तृतन्त्रिभ्य ईः>> (प० उ० ३.१५८) — तरीः। तां पातीति तरीपः। कुत्सितस्तरीपो दुस्तरीपः। नि॒स्त॒री॒प इति केचित् पठन्ति। अपरे नि॒स्त॒री॒क इति। ते तरीशब्दान्ते बहुव्रीहौ कपं कुर्वन्ति। नि॒र॒जि॒नम्। उ॒द॒जि॒नम्। उ॒पा॒जि॒नम्। परेर्हस्तपादकेशकर्षाः (ग०सू० १७९)। प॒रि॒ह॒स्तः। प॒रि॒पा॒दः। प॒रि॒के॒शः। प॒रि॒क॒र्षः। निरुदकादिराकृतिगणः॥
अन्तोदात्तानि । निरुदकम् । निरुपलम् ॥
अरित्रम्। लवित्रम्। धुवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्॥
एषामित्यादि । यदा प्रदिसमासस्तदा - निर्गतमुदकं निर्गतं वोदकादिति विग्रहः, बहुव्रीहौ - निर्गतमुदकमस्मादिति । अथाव्ययीभावार्थमप्येषां ग्रहणं कस्मान्न भवति अथ आह - अव्ययीभावे त्विति । निष्कालिक इति । कालशब्दज्जानपदादिसूत्रेण ङीष्, ततः स्वार्थे कन्, केऽणः इति ह्रस्वः, कालिका, ततः प्रादिसमासः । निष्पेष इति । पिषेर्घञ् । कुत्सितस्तरीय इति । दुः कुत्सायां वर्तत इति दर्शयति । अपरे निस्तरीक इति । पठन्तीत्यनुषङ्गः, निष्पूर्वोऽजिनशब्दः । स एवोदुपपूर्वः । परेरित्यादि । परेरुतरे हस्तादयोऽन्तोदाता भवन्ति । परिहस्त इत्यादि । (हरैरिव केशा यस्य हरिकेशः , कपेरिव कपिकेशः )॥